________________
त्रिषष्टिशलाकापुरुषचरिते |११२॥
| अष्टमं पर्व | तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
राजापि व्याजहारैवं सर्वशास्त्राब्धिपारगः । कोऽपि पुण्याधिको गर्भः संभूतोऽद्य तवोदरे ।। २८५ ।। यावदेवं वार्तयंतौ राजा राज्ञी च तस्थतुः । तावदागात् स शुभ्रेभो भ्रमुप्रिय इव च्युतः ।। २८६ ।। नृपं सकलत्रमपि निजस्कंधे स सिंधुरः । क्षणादारोपयामास तत्पुण्यप्रेरितो हि सः ।। २८७ ।। पुष्पदामक्षेपपूर्वं पूज्यमानः स नागरैः । भ्रांत्वा पुरे पुनः सौधमेत्य तावुदतारयत् ।। २८८ ।। स्वयं चालीयतालाने स सिंधुरधुरंधरः । ववृषुश्चाथ पुष्पाणि रत्नानि च दिवौकसः ।। २८९ ।। सुगंधिभिर्यक्षपकैः सर्वांगमनुलिप्य तम् । अर्चित्वा चोत्तमैः पुष्पै राजा नीरांजना व्यधात् ।। २९० ।। पूर्णकाले व्यतीपातादिदोषादूषितेऽन्यथ । कादंबिनीव तडितं राज्ञी कन्यामजीजनत् ।।२९१ ।। सब्रह्मचारी तरणेस्तस्याश्च तिलको लिके । सहजोऽभून्महापुंसः श्रीवत्स इव वक्षसि ।। २९२ ।। सा स्वयं भास्वती तेन तिलकेन विशेषतः । उपरि न्यस्तरत्नेनोर्मिका हैमीव दिद्युते ।। २९३ ॥ तज्जन्मनः प्रभावेण भीमो निःसीमविक्रमः । बभूव भूभुजां मूर्जा धार्यमाणोऽग्रशासनः ।। २९४ ।। तस्यामुदरवर्तिन्यां राज्ञी स्वप्ने यदक्षत । दवाग्निभीतमायांतं दंतींद्रमिति निर्ममे ।। २९५ ।। संपूर्ण मासि दुहितुस्तस्याः कुडिनभूपतिः । देवदंतीत्यभिधानं निधानं हर्षसंपदः ।। २९६ ।।
॥युग्मम् ॥ १ऐरावतः । २ कादंबिनी मेघमाला । ३ सूर्यस्य । ४ भाले । ५ दमयंतीतिनाम्ना प्रसिद्धा । लोके 'आरती'
| दवदंती(दमयंती)
|| ११२॥