________________
त्रिषष्टिशलाकापुरुषचरिते ||१११॥
अष्टम पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
नलजन्म।
धन्योऽपि सह धूसर्या सुचिरं श्रावकव्रतम् । अपालयदृषल्लेखास्थिरं सम्यक्त्वमुद्वहन् ।। २७३ ।। तौ धन्यौ धूसरीधन्यौ काले जगृहतुव्रतम् । पालयित्वा च सप्ताब्दी विपेदाते समाहितौ ।। २७४ ।। पात्रे पीयूषदानेनार्जितपुण्यावुभौ च तौ । जातौ हैमवते युग्मधर्मी लेश्याविशेषतः ।। २७५ ।। अनातरौद्रध्यानौ तावपि मृत्वोदपद्यताम् । क्षीरडिंडीरनामानौ देवौ दांपत्यशालिनौ ।। २७६ ।। देवश्च्युत्वेह भरते विषये कोशलामिधे । नगर्यां कोशलाख्यायामिक्ष्वाकुकुलजन्मनः ।। २७७ ।। निषधस्यावनिपतेः सुंदरोदरसंभवः । नलो नामाभवत् पुत्रः कूबरस्तस्य चानुजः ।। २७८ ।।
॥युग्मम् ॥ इतश्चास्ति विदर्भेषु नगरं कुडिनाह्वयम् । तत्र चाभून्नृपो भीमरथो भीमपराक्रमः ।। २७९ ।। तस्याभूत् पुष्पदंतीति जाया मायाविवर्जिता । तर्जितस्वर्वधूरुपा परया रुपसंपदा ।। २८० ॥ अर्थधर्माविरोधेन काममप्यनुपालयन् । निर्विघ्नं बुभुजे भोगांस्तया सह महीपतिः ॥ २८१ ॥ एकदा क्षीरडिंडीरा प्रच्युत्य त्रिदशालयात् । तस्याः कुक्षाववातारीत् सुतात्वेन शुभे क्षणे ।। २८२ ।। तदा च सुखसुप्ता सा शयनीये मनोरमे । निशावसाने सुस्वप्नं दृष्ट्वा राज्ञे व्यजिज्ञपत् ।। २८३ ॥ स्वामिजानाम्यहं सुप्ता श्वेतहस्ती तवौकसि । दवाग्निप्रेरितोऽविक्षत् साक्षादिव यशश्चयः ।। २८४ ।। १ पाषाणरेखावत् स्थिरम् । २ दुग्धदानेन । ३ क्षीरडिंडिरश्च क्षीरडिंडीरा च क्षीरडिंडीरावित्येकशेषः ।
|| १११॥