________________
त्रिषष्टिशलाकापुरुषचरिते ।।११०॥
अष्टमं पर्व तृतीयः सः श्रीअरिष्टनेमिजिनचरितम् ।
तत्कालं महिषीपालस्तं प्रणम्य मुनीश्वरम् । पादसंवाहनापूर्वमित्युवाच कृतांजलिः ।। २६० ।। महर्षे विषमः कालः पंकेनातंकदा मही । तदद्य कुत आयासीरायासमविदन्निव ।। २६१ ।। महर्षिरपि तस्याख्यत् पांडुदेशादिहागमम् । यास्यामि लंकानगरी गुरुपादपवित्रिताम् ।। २६२ ।। गच्छतश्चाब्दकालोऽयमंतरायोऽन्तराभवत् । धाराधरोऽखंडधारं वर्षितुं च प्रचक्रमे ।। २६३ ।। वर्षत्यब्दे च गमनं महर्षीणां न युज्यते । वृष्ट्यंताभिग्रहं कृत्वा ततोऽत्रैव स्थितोऽस्म्यहम् ॥२६४ ।। विरतायामद्य वृष्टौ महात्मन् सप्तमेऽहनि । संपूर्णाभिग्रहो यामि वसतौ क्वापि संप्रति ।। २६५ ।। धन्योऽप्युवाच हर्षेण महर्षे महिषं मम । प्राप्ययानमिवारोह पंकदुःसंचरा हि भूः ।। २६६ ।। स मुनिः स्माह जीवेषु नारोहति महर्षयः । परपीडाकरं कर्म ह्याचरति न जातु ते ।। २६७ ।। पादचंक्रमणा एव महर्षय इति ब्रुवन् । स मुनिस्तेन सहितः प्रययावुपपत्तनम् ।। २६८ ॥ महर्षिं स्माह महिषीपालो नत्वा कृतांजलिः । दोहम्यहं महिषीर्यावत्तावदत्र प्रतीक्ष्यताम् ।। २६९ ।। इत्युक्त्वा स्वगृहं गत्वा दुग्ध्वा च महिषीर्दुतम् । आदायैकं दुग्धकुंभमभ्यगात्तं महामुनिम् ॥२७० ॥ धन्योऽतिधन्यमात्मानं मन्यमानः प्रमोदभाक् । तं मुनि कारयामास पारणं पुण्यकारणम् ।। २७१ ॥ वर्षारात्रमतिक्रम्य पोतने स तपोधनः । जगाम रुचितं स्थानमीर्याशुद्धुचितेऽध्वनि ॥२७२ ।। १ दुःखदा।
नलदमयंती पूर्वभवचरिते घन्यधूसर्योः सम्यक्त्वाप्तिः ।
|| ११०॥