________________
त्रिषष्टिशलाकापुरुषचरिते ॥१०९॥
| अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
निनदद्द१रातोद्य इवोद्यद्द१रारवैः । कुर्वन्नुर्वी च हरितैः केशपाशवतीमिव ।। २४९ ।। वृष्टिसृष्टोरुसेवालपिच्छलीभूतभूतलः । संचरत्पांथचरणचीत्कार्याजानुकर्दमः ।। २५० ।। कुर्वन् द्यां विधुदावर्तेरुलूकावर्तिनीमिव । वर्षारात्रः प्रववृतेऽन्यदा वैरी प्रवासिनाम् ।।२५१ ॥
॥चतुर्भिः कलापकम् ।। महिषीः पंकसंपर्कहर्षकेंकारकारिणीः । धन्यश्चारयितुमगात् प्रवर्षत्यपि वारिदे ।। २५२ ॥ बिभ्राणः छत्रकं मूर्ध्नि महद्वारिनिवारणम् । पर्याटीदटवीं धन्योऽनुव्रजन्महिषीव्रजम् ।।२५३ ।। तस्थिवांसं प्रतिमया पादेनैकेन निश्चलम् । उपवासकृशं वृष्टिसहमारण्यकेभवत् ।। २५४ ।। शीता, कंपमानांगं वातांदोलितवृक्षवत् । क्षमाश्रमणमद्राक्षीदेकं धन्यः परिभ्रमन् ॥२५५ ।।
॥युग्मम् ।। तथा परीषहसहं तं दृष्टवा मुनिपुंगवम् । जातानुकंपः स्वं छत्रं स तन्मूर्धन्यधारयत् ।। २५६ ।। धृतातपत्रो धन्येनानन्यसामान्यभक्तितः । प्रभ्रष्टवृष्टिकष्टोऽभूदृषिः स वसताविव ।। २५७ ।। मद्यपानाद्दुर्मदीव वृष्टेर्न व्यरमद्घनः । न तु निर्विविदे धन्यस्तथापि च्छत्रधारणात् ।। २५८ ॥ क्रमयोगेन वृष्टेश्च विरराम घनाघनः । यावदृष्टिकृतध्यानाभिग्रहाच्च महामुनिः ।। २५९ ।। १ शब्दं कुर्वद्द१र नामातोद्यं यस्मिन्सः । २ भेकशब्दैः । ३ पिच्छलीभूतं पंकिलीभूतम् । ४ उल्कापातवर्तिनीम् । ५ अरण्यगजवत् ।
नलदमयंती पूर्वभवचरिते धन्य घूसरीभवः ।
|| १०९॥