________________
त्रिषष्टिशलाकापुरुषचरिते ।।१०८॥
अष्टम पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
उपरिन्यस्तरत्नानि सुवर्णतिलकानि सा । चतुर्विंशतिमर्हद्भ्यः कारयामास भक्तिभाक् ।। २३७ ।। अन्येधुः सपरीवारा गत्वाष्टापदमूर्द्धनि । सा स्नात्रपूर्वमानर्च चतुर्विंशतिमर्हताम् ।। २३८ ।। तासामर्हत्प्रतिमानां ललाटेषु न्यधत्त च । श्रीवल्लेः कुसुमानीव हैमानि तिलकानि सा ।।२३९ ।। चारणश्रमणादीनां तीर्थे तस्मिन्नुपेयुषाम् । दत्वा दानं यथार्ह सा तपस्तदुदपादयत् ।। २४० ।। ततश्च कृतकृत्येव प्रनृत्यंतीव चेतसा । सा धीमती वीरमती पुनरागात् स्वपत्तनम् ।। २४१ ।। पृथक्छरीरौ तावेकमनसाविव दंपती । धर्मकर्मोद्यतौ कालं कियंतमपि निन्यतुः ॥ २४२ ।। समाधिमरणं प्राप्य पूर्णकाले विवेकिनौ । देवलोके तावभूतां देवो देवी च दंपती ।। २४३ ।। च्युत्वा मम्मणजीवोऽथ जंबूद्वीपेऽत्र भारते । बहलीनाम्नि विषये नगरे पोतनाह्वये ।। २४४ ।। धम्मिलासस्याभीरस्य रेणुकोदरसंभवः । धन्यो नामाभवत् पुत्रः पात्रं पुण्यस्य भूयसः ।। २४५ ॥
॥युग्मम् ।। स तु वीरमतीजीवः प्रच्युत्य त्रिदशालयात् । धूसरी नामधेयेन धन्यस्यैव गृहिण्यभूत् ।। २४६ ।। महिषीश्चारयामास धन्योऽरण्येऽनुवासरम् । महिषीचारणं ह्याद्यमाभीराणां कुलव्रतम् ।। २४७ ।। दुर्दशैर्दर्शयन दर्शयामिनीरिव दुर्दिनैः । यंत्रधारागृहीभूतं व्योम प्रोद्दामवृष्टिभिः ।। २४८ ॥ १ श्रीलक्ष्मीरेव वल्लिस्तस्याः । २ दुष्टा दशा येषां तैरिव । ३ आमावास्यारात्रीः ।। गोपालस्य । + मेघयुक्तदिनैः ।
नलदमयंती पूर्वभवचरिते धन्य धूसरीभवः ।
|| १०८॥