________________
त्रिषष्टिशलाकापुरुषचरिते ||१०७॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
मुनिर्बभाषे चलितो रोहीतकपुरादहम् । अष्टापदार्हदिबबानि सार्थेन सह वंदितुम् ।। २२४ ।। भवद्भ्यां च महामानौ सार्थादस्मि वियोजितः । नाष्टापदमगां धर्मकर्म बह्वतरायकम् ।। २२५ ॥ दंपती लघुकर्मत्वाद्वार्तयंतौ तु तं मुनिम् । तौ विसस्मरतुः कोपं दुःस्वप्नमिव मंक्ष्वपि ।। २२६ ।। तावार्द्रहृदयौ ज्ञात्वा परोपकृतिधीमुनिः । तयोराख्यज्जीवदयाप्रधानं धर्ममार्हतम् ।। २२७ ।। अविद्धकर्णौ तौ धर्माक्षरैराजन्म दंपती । किंचिद्धर्माभिमुखतां ततः प्रभृति जग्मतुः ।। २२८ ।। प्रत्यलाभयतां भक्त्या भक्तपानादिना च तम् । प्रियातिथिमिवाभ्यर्णमवातिष्ठयतां च तौ ।। २२९ ।। किं तु राजसभावेन विनिवार्यापरं जनम् । चक्रतुस्तौ स्वयमेव तस्यर्षेः प्रतिलाभनम् ।। २३० ॥ धर्मज्ञानौषधं दत्वा कर्मरोगार्तयोस्तयोः । मुनिः सोऽष्टापदं प्राप ताभ्यामनुमतश्चिरात् ॥२३१ ॥ तौ चिरं व्रतिसंसर्गात् प्रपद्य श्रावकव्रतम् । पालयामासतुर्यत्नाद्रविणं कृपणाविव ।। २३२ ।। वीरमत्यन्यदा धर्मस्थिरीकरणहेतवे । निन्ये शासनदेव्याष्टापदे धर्मजुषां न किम् ॥ २३३ ।। आहतीः प्रतिमास्तत्र पूज्यमानाः सुरासुरैः । दृष्ट्वा सा प्रापदानंदं मुक्तेवात्रापि जन्मनि ।।२३४ ॥ चतुर्विंशतिमप्यर्हदिबबान्यष्टापदाचले । वदित्वा पुनरप्यागात् स्वपुरं खेचरीव सा ।। २३५ ।। जिनं जिनं प्रत्यकार्षीत्सा चाचाम्लानि विंशतिम् । तीर्थावलोकनाद्धर्मे दधाना स्थेयसी धियम् ।। २३६ ।। १ हे महामानौ । २ धर्मज्ञानाक्षरैरविद्धौ कर्णी ययोस्तौ । ३ रजोगुणत्वेन । ४ स्थिरतराम् ।
नलदमयंतीपूर्वभवचरिते मम्मण
| वीरमतिभवः।
|| १०७॥