________________
त्रिषष्टिशलाकापुरुषचरिते ||१२३॥
| अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
कदंबोऽपि हि सन्नह्य ससैन्यो निर्ययौ बहिः । न सिंहः सहतेऽन्यं हि गुहाद्वारोपसर्पिणम् ।। ४२२ ।। मिथो युयुधिरे योधाः क्रोधारुणविलोचनाः । शराशरिकृतव्योममंडपाश्चंडतेजसः ।। ४२३ ॥ नलः कदंबमूचे च मारितैः किमिभादिभिः । आवां युध्यावहे हंत द्वंद्वयुद्धेन वैरिणौ ।। ४२४ ॥ ततो नलः कदंबश्च जंगमाविव पर्वतौ । युयुधाते द्वंद्वयुद्धैर्दोर्युधादिभिरुत्तमैः ॥ ४२५ ॥ नलात् कदंबो दधिो यद्यधुद्धमयाचत । पराभूतो विजयिना तत्र तत्र नलेन सः ।। ४२६ ।। क्षत्रवृत्तं मयातोलि नलेन तु महौजसा । मृत्युकोटी प्रापितोऽस्मि तन्मा मृषि पतंगवत् ।। ४२७ ।। तस्मात् पलायनं कृत्वा व्रतमासादयाम्यहम् । पलायनमपि श्रेयो यस्योदर्कोऽतिनिर्मलः ।। ४२८ ॥ इति चेतसि संचित्य कदंबः प्रपलाय्य च । विरक्तो व्रतमादत्त तस्थौ प्रतिमया च सः ॥ ४२९ ।। नलः कदंबं दृष्ट्वात्तव्रतमूचे जितोऽस्म्यहम् । क्षमां क्षमांतरासक्तो मा त्याक्षीर्जितकास्यसि ।। ४३० ॥ महाव्रतधरो धीरः स कदंबमहामुनिः । नलस्य नोत्तरमदान्निरीहस्य हि किं नृपः ।। ४३१ ।। नलः कदंब व्यावर्ण्य तत्सत्त्वेन शिरो धुनन् । तत्सूनुमेव तद्राज्ये जयशाक्तिंन्यवीविशत् ।। ४३२ ।। ततश्च नलराजस्य जिष्णोर्विष्णोरिवाखिलैः । भरतार्धपतित्वाभिषेकोऽकार नरेश्वरैः ।। ४३३ ॥ अथ कोशलनाथस्य कोशलामधिजग्मुषः । राजानो भक्तिकुशलाः सर्वे कौशलिकान्यदुः ।। ४३४ ।। १ परिणामः । २ लोकांतरासक्तः परलोकासक्त इत्यर्थः । ३ जयेन शोभमानः । ४ उपहारान् ।
नलेन कदंबस्य पराजयः, कदंबस्य दीक्षा च।
|| १२३॥