________________
त्रिषष्टिशलाकापुरुषचरिते ।।१०५॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
तया च तत्रागतया स स्वयंवरमंडपः । मंगल्यया दीपिकया गृहगर्भ इवाबभौ ।। १९८ ।। दृशा संभावयामास वुवूषूनखिलांश्च सा । कैरवाणीन्दुलेखेव भासा शौंडीर्यसारया ।। १९९ ।। चित्रदृष्टं वसुदेवं दूत्यदृष्टं च तत्र तम् । अपश्यंती विषादात्मा मम्लौ सायमिवाब्जिनी ।। २०० ।। सपांशुक्रीडिकाहस्तन्यस्तभाराथ सा चिरम् । निःस्पंदा शालभंजीव तस्थावस्वास्थ्यमीयुषी ।। २०१ ।। तस्यां कमप्यवृण्वत्यां राजानः स्वं व्यलोकयन् । किं रुपवेषचेष्टादिदोषोऽस्मास्विति शंकया ।। २०२ ।। सख्यूचे कनकवती किमद्यापि विलंबसे । स्वयंवरनक् कस्यापि न्यस्यतां कंठकंदले ।। २०३ ।। हरिश्चंद्रसुतोवाच रुच्यो हि व्रियते वरः । यश्च मे रोचते मंदभाग्या पश्यामि तं न हि ।।२०४ ।। दध्यौ च क उपायो मे का गतिश्च भविष्यति । इष्टं वरं न पश्यामि भव रे हृदय द्विधा ।। २०५ ।। इत्थं चिंतातुरा प्रेक्ष्य धनदं प्रणिपत्य च । सा दीना रुदती बद्धांजलिरेवं व्यजिज्ञपत् ।। २०६ ॥ देव प्राग्जन्मपत्नीति नर्मेत्थं मा कृथा मयि । मया वुवूर्षितो भर्ता त्वया चक्रे तिरोहितः ।। २०७ ॥ स्मित्वोचे धनदः शौरिं महाभाग मयार्पिताम् । मुद्रां कुबेरकांताख्यामिमां हस्तादपाकुरु ।। २०८ ।। शौरिस्तामूर्मिकां हस्तादुत्तार्य धनदाज्ञया । स्वमूर्तिभागभूर्भूयो नाट्याभिनयपात्रवत् ॥ २०९ ।। सा दशाह स्वमूर्तिस्थमुपलक्ष्य वलक्षदृक् । बहिर्भूतप्रमोदेव बभूव पुलकांकिता ।। २१० ॥ १ हास्यम् । २ श्वेतदृष्टिः । * सामर्थ्यम् ।
कनकवतीस्वयंवरः।
महाभाग मया । स्वमूदेव बभूवः
|| १०५॥