________________
त्रिषष्टिशलाकापुरुषचरिते ॥१०४॥
| अष्टमं पर्व | तृतीयः | सर्गः श्रीअरिष्ट
नेमिजिनचरितम् ।
कनकवती|स्वयंवरः ।
रत्नादर्शाकितं विष्वगनेकाकॅरिवाश्रितम् । रत्नमय्याष्टमंगल्या शोभितद्वारभूमिकम् ।। १८६ ।। खे वलाकाभ्रमकरैः शोभितं शुभ्रकेतुभिः । नानारत्नमयोर्वीकं सुधर्माया इवानुजम् ।। १८७ ।। वराणां ग्विनोदाय प्रक्रांतप्रेक्षणीयकम् । प्रविवेशोत्तराधीशस्तं स्वयंवरमंडपम् ।। १८८ ॥
॥चतुर्भिः कलापकम् ।। तत्रैकस्मिन्नुच्चमंचे धनदो हंसवाहनः । स्वस्थे सिंहासने स्वःस्त्रीजनावृत उपाविशत् ।। १८९ ।। अदूरे धनदस्याथ तस्यैव युवराडिव । वसुदेवो निषसाद प्रसादसुभगाननः ।। १९० ॥ क्रमेणान्येऽपि मंचेषु राजानः परमर्द्धयः । विद्याधराश्च न्यषदन् स्पर्धमाना इव श्रिया ।। १९१ ।। धनदो निजनामांकामर्जुनस्वर्णनिर्मिताम् । ऊर्मिकामार्पयच्छौरेः स न्यधात् कनिष्ठांगुलौ ॥१९२ ।। ऊर्मिकायाः प्रभावेण तदैव यदुनंदनम् । कुबेरमूर्तिमद्राक्षीत्तत्रस्थः सकलो जनः ।।१९३ ।। अहो कुबेरो भगवान्मूर्तिद्वयभृदागतः । प्रघोषाद्वैतमित्युच्चैः स्वयंवरसदामभूत् ।। १९४ ॥ सदशश्वेतवसना ज्योत्स्नाक्तेव विभावरी । मुक्ताताडंकरुचिरा सद्वींदुरिव मेरुभूः ॥ १९५ ।। अलक्तरसरक्तोष्ठी पक्वबिबेव बिंबिका । हारभूषितवक्षोजाद्रिभूरिव सनिर्झरा ।। १९६ ।। बिभ्रती स्मरदोलाभं पाणिभ्यां पुष्पदाम च । तदा कनकवत्यागात्तत्र हंसीव मंथरम् ।। १९७ ॥
॥त्रिभिर्विशेषकम् ।। १ज्योत्स्नासहिता ।२ इंन्दुद्वयसहिता । ३ बिंबलता । * इन्द्रसभायाः । + तालपत्राकारम् कर्णाभूषणम् । • जतु । भाषायाम् 'लाख'
|| १०४॥