________________
त्रिषष्टिशलाकापुरुषचरिते ॥१०१॥
अष्टमं पर्व तृतीयः सर्ग: श्रीअरिष्टनेमिजिनचरितम् ।
प्राप्तश्च प्रमदवने प्रासादं सप्तभूमिकम् । तुंगं प्राकारभद्राक्षीत्तं शनैरारुरोह च ।। १४९ ॥ दिव्यालंकारनेपथ्यधरां कल्पलतामिव । सर्वर्तुपुष्पाभरणां साक्षादिव वनश्रियम् ॥ १५०॥ आजन्मसृष्टिसर्वस्वमिव रुपश्रिया विधेः । भद्रासनस्थितामेकामपि सानुचरामिव ।। १५१ ॥ पट्टालिखितपुंरूपं पश्यंती तन्मयीमिव । अद्राक्षीत् कनकवतीमुपसर्पन यदूद्वहः ॥१५२ ।।
॥त्रिभिर्विशेषकम् ।। दशाहँ कनकवती पट्टरुपमिवापरम् । दृष्ट्वेष्टागमनज्ञानाट्यकसत् प्रातरब्जवत् ।। १५३ ।। सा दृष्टवा यादवं चित्रं चित्रं दृष्ट्वा च यादवम् । ददर्श श्रांतमश्रांतनेत्रा हर्षोच्छ्वसत्तनुः ।। १५४ ।। दशाहमर्चमाना सा नेत्ररिंदीवरैरिव । भद्रासनाद्रागुदस्थात् कृतांजलिरुवाच च ।। १५५ ॥ त्वमाकृष्टोऽसि मे पुण्यैस्तव दास्यस्मि सुंदर । इत्युक्त्वा वसुदेवस्य सा नंतुमुपचक्रमे ।। १५६ ।। दशार्हः प्रणमंती तां प्रतिषिध्यैवमब्रवीत् । भृत्योऽस्मि मा प्रणंसीस्तवं स्वामिन्यसि महाशये ।। १५७ ॥ यो हि स्यादनुरुपस्ते तं प्रणतुं त्वमर्हसि । अविज्ञातकुले भृत्ये मा मय्यनुचितं कृथाः ।। १५८ ॥ सोवाच सर्व ज्ञातं ते त्वमेवासि पतिर्मम । यस्त्वं देवतयाख्यातो ध्यातश्चित्रगतश्च यः ।। १५९ ॥ वसुदेवोऽवदद्भद्रे नाहमस्मि पतिस्तव । यस्ते देवतया ख्यातः पतिस्तस्यास्मि किंकर ।। १६०॥ १ जन्मत आरभ्य कृता या सृष्टिस्तस्याः सर्वस्वम् । २ कस गतौ ह्ययस्तनीरुपम् । ३ पूर्वश्लोके "देवेन कथितः" इत्यर्थः कनकवत्या प्रदर्शितः अत्र तु तद्वचनस्यैव देवत्वेन प्रसिद्धः” इत्यर्थो वसुदेवेन कृत इति तात्पर्यान्न विरोधः । नीलकमलैः ।
कनकवतीस्वयंवरः ।
|| १०१॥