SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ अष्टमं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचरिते ॥१००॥ सर्गः श्रीअरिष्टनेमिजिनचरितम् । मुक्ताविद्रुमदामौघांश्चामरांश्चावलंबितान् । संक्रांतांस्तत्र सोऽपश्यन्मायाकारकृतानिव ।। १३६ ॥ सुवेषरुपा रत्नालंकारभांडभृतोऽभितः । शालभंजीरिव स्तंभलग्नाश्चेटीर्ददर्श च ।। १३७ ।। प्राप्तः कक्षातरं षष्ठं सोऽद्राक्षीत्पद्मकुट्टिमम् । दिव्यं सरोवरमिव सर्वतः पद्ममंडितम् ।। १३८ ।। दिव्यांगरागपूर्णानि मणिपात्राणि चाग्रतः । अपश्यत्तत्र वार्ष्णेयो दैवतान्यंशुकानि च ।। १३९ ।। कृमिरागांशुकभृतां सुदृशां तत्र वृष्णिसूः । मूर्तानामिव संध्यानां वृंदं दृग्विषयं व्यधात् ।। १४० ।। कक्षांतरे सप्तमे च शौरिः कुट्टिममैक्षत । लोहिताक्षमयस्तंभं कर्केतनमणीमयम् ॥ १४१ ।। तत्रापश्यत् कल्पवृक्षान् कुसुमाभरणानि च । पानीयपूर्णकलशंकरकाणां च धोरणीः ॥१४२ ।। कलाविदः सर्वदेशभाषादक्षाः सुलोचनाः । कुंडलालीढगंडाश्च सोऽद्राक्षीद्वेत्रधारिणीः ।। १४३ ॥ सोऽचिंतयच्च कस्यापि नावकाशोऽत्र वेश्मनि । एताभित्रधारीभिर्नीरंध्र परिवारिते ।। १४४ ।। एवं चिंतयतः शौरेर्लीलाकनकपद्मभृत् । पक्षद्वाराध्वना दिव्यवेषैका दास्युपाययौ ॥ १४५ ।। अप्रच्छन् वेत्रधारिण्यस्तास्तामेवं ससंभ्रमाः । स्वामिनी कनकवती क्व तिष्ठति करोति किम् ।। १४६ ।। साप्याख्यत् प्रमदवनप्रासादे दिव्यवेषभृत् । देवताकृतसांनिध्या स्वामिन्येकैव तिष्ठति ॥ १४७ ।। वसुदेवोऽपि तच्छुत्वा तां ज्ञात्वा तत्र तस्थुषीम् । पक्षद्वाराध्वना दासी कथितेन विनिर्ययौ ।। १४८ ।। १ कृमिरागो भाषायां “कीरमजरंगः" २ रक्तमणिमयस्तंमम् । ३ करकं कमंडलूः । ४ पक्षद्वारा पार्श्वद्वारेण । * पुरतः । कनकवती| स्वयंवरः । | १००।।
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy