________________
त्रिषष्टिशलाकापुरुषचरिते
॥१९॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्ट| नेमिजिनचरितम् ।
स्वस्ति तुभ्यं प्रयाहीति धनदेनोदितः पुनः । निःशंकं वसुदेवोऽगाद्धरिश्चंद्रगृहांगणम् ।। १२३ ।। हस्त्यश्वरथयोधादिनिरुद्धद्वारमप्यथ । वसुदेवोऽविशद्वेश्म हरिश्चंद्रमहीपतेः ।। १२४ ।। अदृश्यमानः केनापि ततश्चाप्रस्खलद्गतिः । योगीवांजनसिद्धोऽगादग्रतो वृष्णिनंदनः ॥ १२५ ॥ रुद्धं बद्धपरिकरैः सौविदैर्वेत्रपाणिभिः । प्राविशत् प्रथमं कक्षांतरं शौरिनुपौकसः ।। १२६ ।। इंद्रनीलमयोर्वीकं चलत्कांतितरंगितम् । सांभोवापीभ्रमकरं शौरिस्तत्क्षणमैक्षत ।। १२७ ॥ दिव्याभरणधात्रीणां स्त्रीणामप्सरसामिव । सुरुपाणां सवयसां तत्र वृंदं ददर्श च ।। १२८ ।। स्वर्णस्तंभं मणिमयपांचालीकं चलद्ध्वजम् । कक्षान्तरमथाविक्षद्वैतीयीकं यदूद्वहः ।। १२९ ॥ ज्योत्स्नासहोदरक्षीरतरंगेऽथ तृतीयके । कक्षांतरेऽविशत् क्षीरोदधाविव सुरद्विपः ।। १३० ॥ स्त्रीजनं तत्र सोऽपश्यद्दिव्याभरणभूषितम् । असंमातं सुरपुरेऽप्सरोजनसमागतम् ।। १३१ ॥ तुर्यं कक्षांतरं प्राप्तोऽपश्यच्च जलकुट्टिमम् । तरंगतरलं हंसकुररादिसमाकुलम् ।। १३२ ॥ तत्रात्मानं प्रपश्यतीर्विनाप्यादर्शमंगनाः । श्रृंगारकर्म कुर्वाणाः प्रेक्षांचक्रे यदूद्वहः ।। १३३ ।। अौषीत्सारिकाकीरोदीर्यमाणं च मंगलम् । चेटीजनं च प्रैक्षिष्ट गीतनृत्यसमाकुलम् ।। १३४ ॥
कक्षांतरं पंचमं च ययौ शौरिददर्श च । मनोरमं मारकतं कुट्टिमं स्वर्गृहोपमम् ॥ १३५ ॥ | १ सजलवाप्या भ्रमकरम् । २ कुररः पक्षिविशेषो भाषायां “टीटोडी" इति प्रसिद्धम् । ३ शुकः ।
| कनकवतीस्वयंवरः।
|| ९९ ॥