________________
त्रिषष्टिशलाकापुरुषचरिते
॥९८॥
| अष्टम पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
तत्र वैश्रवणः पूजां समाप्य श्रीमदर्हताम् । यथारुचि प्रचलितो ददर्शानकदुंदुभिम् ।। ११० ।। अचिंतयच्च काप्यस्य पुंसो लोकोत्तराकृतिः । अमराणामसुराणां खेचराणा च नास्ति या ।। १११ ।। धनदोऽनुपमश्रीकमाकृत्या प्रेक्ष्य यादवम् । अंगुलीसंज्ञयाह्वास्त विमानस्थः ससंभ्रमम् ।। ११२ ।। अहं मनुष्यो देवोऽयं महर्द्धिः परमार्हतः । इत्यगाद्वसुदेवस्तमभीरुः कौतुकीति च ।। ११३ ॥ धनदोऽपि ततः स्वार्थसतृष्णो वृष्णिनंदनम् । प्रियालापादिसत्कारपात्रीचक्रे वयस्यवत् ।। ११४ ॥ प्रकृत्यापि विनीतात्मा सत्कृतश्चेति वृष्णिसूः । कृतांजलिस्तं प्रावोचदाज्ञापय करोमि किम् ॥ ११५ ॥ अथावदद्वैश्रवणः श्रोत्रशर्मदया गिरा । साधयानन्यसाध्यं मे दूत्यमेकं महाशय ।। ११६ ।। अस्मिन् पुरे हरिश्चंद्रनरेंद्रस्य कुमारिका । सुता कनकवत्यस्ति तामिदं वद मद्गिरा ।। ११७ ॥ शक्रस्य देवराजस्योत्तरदिक्पतिरिच्छति । त्वां वैश्रवण उद्वोढुं मानुष्यप्यमरी भव ।। ११८ ।। मम चामोघया वाचा समीरण इवास्खलन् । प्रदेशं कनकवत्या भूषितं त्वमवाप्स्यसि ।। ११९ ।। तत्र च गत्वा स्वावासे दिव्यालंकरणादिकम् । मुक्त्वा प्रेष्योचितं शौरिर्मलिनं वेषमाददे ।। १२० ।। यांतं मलिनवेषं तु यादवं धनदोऽवदत् । किमुदारं वेषमौज्जीः सर्वत्राडंबरोऽर्हति ॥ १२१ ॥ शौरिः प्रोवाच वेषेण मलिनेनोज्वलेन वा । किं नाम कार्य दूत्ये हि मंडनं वाग्ममास्ति सा ।। १२२ ।। १ कुबेरः । २ दूतयोग्यम् । ३ हि यस्मात्कारणान्मंडनं वागेवास्ति सा वाग्ममास्तीत्यन्वयः ।
कनकवतीस्वयंवरः ।
॥ ९८॥