________________
त्रिषष्टिशलाकापुरुषचरिते
॥१७॥
अष्टमं पर्व तृतीयः सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
तत्र चायतनेऽप्युच्चैः प्रतिमाः श्रीमदर्हताम् । दिव्योपहारैरानर्च ववंदे च यदूद्वहः ।। २८ ।। तदा च विष्वग्रलाढ्यं सुमेरुरिव जंगमम् । उत्पल्लवं द्रुममिव पताकालक्षलक्षितम् । ९९ ।। अनेककरिमकरतुरगाकरमब्धिवत् । आदित्यमंडलरुचामाचामकमिवार्चिषा ।। १०० ।। समेघनादं व्योमेव बंदिकोलाहलाकुलम् । मांगल्यतूर्यनिर्घोषतर्जितांबुदगर्जितम् ।। १०१ ।। उत्कंधरीकृताशेषविद्याधरमवातरत् । विमानमेकमद्राक्षीत्तत्र शौरिरनाकुलः ।। १०२ ।।
॥चतुर्भिः कलापकम् ॥ पप्रच्छ चैकमग्रस्थं वसुदेवो दिवौकसम् । विमानं शक्रसघ्रीव कस्येदं नाकिनो वद ।। १०३ ॥ सोऽब्रवीद्धनदस्येदं तदारुढः स चाधुना । उत्तरत्यत्र भूलोके कारणेन गरीयसा ।। १०४ ।। पूजयित्वाहत्प्रतिमाश्चैत्येऽस्मिन् प्रयतिष्यते । अचिरात्कनकवतीस्वयंवरदिक्षया ।। १०५ ॥ तदा चाचिंतयच्छौरिर्धन्या कनकवत्यहो । देवा अप्युपतिष्ठंते प्रारब्धे यत्स्वयंवरे ।। १०६ ॥ अथावतीर्य धनदः प्रतिमाः श्रीमदर्हताम् । आनर्च च ववंदे च संगीतं चाप्यचीकरत् ॥ १०७ ।। अहो महात्मा देवोऽयं पुण्यभाक् परमार्हतः । अहो प्रभावनापात्रं शासनं श्रीमदर्हताम् ।। १०८ ॥ अहो धन्योऽस्मि यस्यैतदद्भुतं दृष्टिगोचरम् । सुचिरं चिंतयामास शौरिरेवं समाहितः ॥ १०९ ॥
कनकवतीस्वयंवरः।
॥ ९७॥