________________
त्रिषष्टिशलाकापुरुषचरिते ॥१०२॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
श्रूयतां च स ते भर्ता शक्रस्योत्तरदिक्पतिः । स्वःस्त्रीमुखाब्जभसलो धनदो विश्वविश्रुतः ।। १६१ ।। तस्यास्मि किंकरो दूतो याचेऽहं त्वां तदाज्ञया । भवाग्रमहिषी तस्य सेव्यमानामरीजनैः ।। १६२ ॥ साब्रवीद्धनदनामग्राहं कृतनमस्कृतिः । शकसामानिकः क्वायं क्वाहं मानुषकीटिका ॥ १६३ ।। दूत्यं यन्मय्यनुचितं क्रीडामात्रं हि तस्य तत् । मानुषीणां सुरैर्जातु भूतपूर्वो न संगमः ।। १६४ ।। वसुदेवोऽवदद्भद्रे देवतादेशमन्यथा । कुर्वाणा दवदंतीव त्वमनर्थमवाप्स्यसि ।।१६५ ।। ऊचे कनकवत्येवं धनदेत्यक्षरैः श्रुतैः । मम प्राग्जन्मसंबंधात्कृतोऽप्युत्कंठते मनः ।। १६६ ॥ दुर्गन्धस्य शरीरस्यौदारिकस्य सुधौदनाः । नेशते गंधमपि हि सोढुमित्यर्हतां वचः ॥ १६७ ॥ तद्रूत्यच्छद्मना च्छन्नस्त्वमेव हि पतिर्मम । गत्वा चाख्याहि मद्वाचं देवस्योत्तरदिक्पतेः ।।१६८ ।। त्वद्दर्शनेऽपि नार्हामि मानुषीमात्रमस्म्यहम् । पूज्योऽसि प्रतिमां कृत्वा सप्तधातुतनोर्मम ।। १६९ ।। अदृश्यमानः केनापि ततश्च यदुपुंगवः । पथा यथागतेनैव ययौ धनदसंनिधौ ।। १७० ।। यावदाख्यातुमारेभे तं वृत्तांतं यदूद्वहः । तावत् प्रोवाच धनदः सर्वं विदितमेव मे ।। १७१ ।। पुरः सामानिकानां च धनदः प्रशशंस तम् । महापुंसोऽस्य काप्येषा निर्विकारचरित्रता ।। १७२ ॥ इति प्रशंसन् धनदो नाम्ना सुरंपतिप्रियम् । देवदूष्यांशुकयुगं दिव्यगंधाधिवासितम् ।। १७३ ।। १ भसलः सूर्यः । २ अमृतभोजना देवा इति यावत् । ३ एतदादीनि नामानि सार्थकान्येव ।
| कनकवती| स्वयंवरः।
।। १०२॥