________________
त्रिषष्टिशलाकापुरुषचरिते
॥९४॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
अहं चंद्रातपो नाम खेचरोऽस्मि वरानने । भाविनस्त्वत्पतेरस्य पादशुश्रुषणोद्यतः ।। ५९ ।। विद्याप्रभावादन्यच्च निरघे कथयामि ते । त्वामेष्यत्यन्यदूत्येन स्वयंवरदिने च सः ।। ६० ॥ इत्युक्तवंतं दत्ताशीः खेचरं विससर्ज सा । दध्यौ च संवदति मे दिष्ट्या यदैवतं वचः ।। ६१ ।। तयाथ चित्रस्थपतिर्दर्शनातृप्तया पटः । भूयो भूयोऽक्षिवच्चक्रे मीलनोन्मीलनास्पदम् ।। ६२ ।। क्षणं मूर्ध्नि क्षणं कठे क्षणं हृदि च सा पटम् । दधे विरहतापार्ता बाला कदलीकांडवत् ।। ६३ ।। चंद्रातपोऽपि तत्कालं तयोः संगमकौतुकी । ययौ विद्याधरपुरे विद्याधरविभूषिते ।। ६४ ॥ विद्याशक्त्या महीयस्या स नभस्वानिवास्खलन् । वसुदेवाश्रितं वासभवनं प्राविशन्निशि ।। ६५ ॥ हंसरोमतूलिकांके तल्पे धौतोत्तरच्छदे । सकलत्रं वसुदेवं शयानं च ददर्श सः ॥६६ ॥ विद्याधरीभुजलतोच्छीर्षकं सुखशायिनम् । पादसंवाहनेनोपाक्रस्त शौरि स सेवितुम् ॥६७ ॥ शौरी रतक्लमोत्पन्ननिद्रासुखभरोऽपि हि । क्षणादथ जजागार सूाना हि नरोत्तमाः ।। ६८ ॥ आकस्मिक निशीथेऽपि तं तदोद्वीक्ष्य यादवः । न बिभाय न चुकोप प्रत्युतैवं परामशत् ।।६९ ।। पुमानेष विरुद्धो मे न हि तावदुपासनात् । शरणार्थी भवेद्यद्वा यद्वा मत्कार्यचिंतकः ॥ ७० ॥ यद्यालपाम्यमुं पादसेवकं मृदुवागपि । सुखसुप्ता रतक्लांत्या तदा देव्यपि जागृयात् ॥ ७१ ॥ १ पापरहिते । २ सुखेनोत्थानं येषां ते । ३ व्यचिंतयत् ।
दमयंतीजीवकनकवत्या वसुदेवेऽनुरागः ।
&
॥ ९४ ॥