________________
त्रिषष्टिशलाकापुरुवचरिते
॥९५॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
न चोपेक्षितुमर्हामि सेवापरममुं जनम् । उपेक्षकस्यापि हि मे न निद्रास्मिन्निह स्थिते ।।७२ ।। तदुत्थाय प्रयत्नेन देवीमप्रतिबोधयन् । पर्यंकात् परतो भूत्वा वार्तयाम्यमुमादतम् ।। ७३ ॥ अनांदोलितपर्यंकस्तनुलाघवनाटनात् । दशार्हस्तल्पमुज्झित्वा निषसाद ततोऽन्यतः ।। ७४ ।। चंद्रातपोऽपि सर्वांगरत्नाभरणभूषितः । दशाह दशमं भक्त्या प्राणमत् पत्तिलेशवत् ।। ७५ ।। य आख्यत् कनकवतीं सोऽयं चंद्रातपाभिधः । विद्याधर इति शौरिरुपलक्षयति स्म तम् ।।७६ ।। दर्शाहः प्रतिपत्त्यहं तं परिष्वज्य खेचरम् । पृच्छति स्म स्वागतिकं स्वयमागमकारणम् ।। ७७ ।। ततश्चंद्रातपश्चंद्रातपशीतलया गिरा । प्रौढ्या प्रज्ञावतां धुर्यो वक्तुमेवं प्रचक्रमे ।।७८ ।। ताशी कनकवतीं तवाख्याय यदूद्वह । त्वामप्याख्यातवानस्मि तस्यै सद्भूतवर्णनात् ॥७९ ॥ विद्याबलाच्च त्वां नाथ पटे लिखितवानहम् । तं पटं चार्पयं तस्यै तन्मुखांभोजभास्करम् ।। ८० ॥ दृष्ट्वा पटस्थं त्वां राकामृगांकमिव संमदात् । तस्या ववर्षतुर्वारि लोचने चंद्रकांतवत् ॥ ८१ ।। साधात्तदैव त्वन्मूर्तिसनाथं तं पटं हृदि । दातुं विरहसंतापसंविभागमिव त्वयि ।। ८२ ।। सा यंत्रशालभंजीव वर्षन्नेत्रा कृतांजलिः । मामिति प्रार्थितवती गौरवोत्तारितांचला ।। ८३ ॥ मोपेक्षिष्ठा वराकी मां नाप्तो मे त्वतेऽपरः । उपानयेस्तं पुरुषं सर्वथा मत्स्वयंवरे ।। ८४ ॥ १ अनांदोलितोऽचालितः पयंको येन सः । २ हर्षात् ।
वसुदेवाय कनकवत्यनुरागख्यापनम्।
॥ ९५॥