________________
त्रिषष्टिशलाकापुरुषचरिते
॥९३॥
| अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
हंसोऽप्याख्यत् कोशलायां नगर्यां खेचरेशितुः । कोशलस्यामरीकल्पा दुहितास्ति सुकोशला ।। ४६ ।। सुकोशलापतिश्चास्ति युवा सौन्दर्यसारभूः । तं दृष्ट्वा भज्यते रेखा सर्वेषां रुपशालिनाम् ।। ४७ ।। सुकोशलापतिर्लोकोत्तररुपः स सुंदरि । तद्रूपसशं रुपं ह्यादर्श यदि नान्यतः ।। ४८ ॥ यथा हि स युवा रुपसंपदा नृशिरोमणिः । नारीशिरोमणिस्तद्वत्त्वमप्यसि मनस्विनि ।। ४९ ।। युवयो रुपदृष्टाहं युवयोः संगमेच्छया । त्वां तस्य सम्यगाख्यायाख्यातवानस्मि तं तव ।। ५० ॥ स्वयंवरं च ते श्रुत्वा तथा तस्यासि वर्णिता । तव स्वयंवरे भद्रे स यथा स्वयमेष्यति ।। ५१ ॥ स्वयंवरे बहूनां च मध्ये त्वमुपलक्षयेः । नक्षत्रनाथं नक्षत्रेष्विवानल्पेन तेजसा ।। ५२ ।। तन्मुंच मां स्वस्ति तुभ्यमपवादो धृते मयि । विधिभट्टारक इव पत्यर्थं प्रयते तव ।। ५३ ॥ न सामान्यः पुमानेष क्रीडया हंसरुपभृत् । पतिः संपत्स्यतेऽनेन दध्यौ कनकवत्यदः ।। ५४ ।। तं मुमोच च सा हस्तात् स उत्पत्य विहायसा । तदुत्संगे चित्रपटमपातयदुवाच च ।। ५५ ।। इहास्ति लिखितो भद्रे स युवा यागीक्षितः । दृष्ट्वा लेख्यगतममुंजानीथास्तमिहागतम् ।। ५६ ।। प्रीता कनकवत्यूचे कृतांजलिपुटा च तम् । कोऽसि त्वं कथयित्वा स्वं मनागनुगृहाण माम् ।। ५७ ॥ स खेचरो हंसचरश्चलत्कांचनकुंडलः । दिव्यांगरागनेपथ्यस्तथ्यवागिदमभ्यधात् ।। ५८ ॥ १ चंद्रम् । २ विधिरेव भट्टारको देवः ।
दमयंतीजीवकनकवत्या वसुदेवेऽनुरागः।
॥ ९३॥