________________
त्रिषष्टिशलाकापुरुषचरिते
॥९२॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
अशोकपल्लवाताम्रचंचूचरणलोचनम् । पांडिम्ना नवडिंडिरपिंडैरिव विनिर्मितम् ।। ३४ ।। स्वर्णघर्घरिकामालभारिग्रीवं कलस्वनम् । नृत्यंतमिव योनेन तं दृष्ट्वा सेत्यचिंतयत् ॥ ३५ ॥
॥युग्मम् ॥ कस्याप्यनल्पपुण्यस्य विनोदास्पदमेष हि । स्वामिस्वीकारबाह्यं हि पक्षिणां भूषणं कुतः ।। ३६ ॥ स्वामिनो यस्य कस्यापि भवत्वेष सितच्छदः । विनोदायास्तु मे बाढं ममेहोत्कंठते मनः ।। ३७ ।। गवाक्षलीनमथ तं सा हंस हंसगामिनी । मांगल्यचामरमिव श्रियः स्वयमुपाददे ।। ३८ ॥ पद्माक्षा पाणिपद्मेन सुखस्पर्शेन सा शनैः । मरालं लालयामास तं क्रीडापुंडरीकवत् ।। ३९ ।। शिरीषसुकुमारेण पाणिनामार्जयच्च सा । तस्यामलं पिच्छकोशं केशपाशं शिशोरिव ।। ४० ॥ सखी कनकवत्यूचे दारुपंजरमानय । यथा तत्र क्षिपाम्येनं नैकत्र स्थायिनः खगाः ॥ ४१ ॥ दारुपंजरमानेतुं सा यावत्प्राचलत् सखी । स हंसो वक्तुमारेभे तावन्मानुषभाषया ।। ४२ ।। राजपुत्रि विविक्तासि मा मा मां पंजरे निधाः । तुभ्यं निवेदयिष्यामि प्रियं किंचिद्विमुंच माम् ॥ ४३ ॥ हंसं मानुषवाचा तं वदंतं प्रेक्ष्य विस्मिता । सा गौरवाददोऽवादीत् प्रियातिथिमिवागतम् ।। ४४ ॥ प्रत्युतासि प्रसादा) हे हंस कथय प्रियम् । शर्करातोऽपि मधुरा वार्धिकथिता सती ।। ४५ ।। १ श्वैत्येन शुक्लत्वेनेति यावत् । २ नवो यो डिंडिरः समुद्रफेनस्तस्य पिंडैः समूहैः । ३ गमनेन । ४ विवेकवतीव ।
| नलदमयंती चरिते तयोरुत्तरभवः ।
॥ ९२॥