SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ।। अष्टमं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचरिते ॥८९॥ सर्गः श्रीअरिष्ट नेमिजिन | चरितम् । इतश्चात्रैव भरते विद्याधरपुरोपमम् । पेढालपुरमित्यस्ति सर्वाद्भुतनिधानभूः ॥ १ ॥ यत्रोत्फुल्लगृहोद्यानानिलो भवति शर्मणे । वस्त्राधिवासनागंधकारी यूनामहर्निशम् ।। २ ।। यत्रौकोरत्नबद्धोर्वीसंक्रांतोडुषु बालिकाः । क्षिपति पाणीन् यामिन्यां दंतताडंकशंकया ।। ३ ।। यद्गृहेषुत्पताकेषु दृश्यते निधिशालिषु । चलत्पताकिकाच्छायारक्षा विषधरा इव ।। ४ ।। यत्र वासी जनः सर्वः सर्वतः समरज्यत । दृढेन जिनधर्मेण नीलीरागेण वस्त्रवत् ।। ५ ।। तत्र राजा हरिश्चंद्रश्चंद्रवन्निर्मलो गुणैः । बभूवाद्भुतया ऋद्ध्या बिडौजस इवानुजः ॥६॥ सुस्थानस्येंद्रियजये नयविक्रमशालिनः । तस्य ध्रुवल्लरीदास्यमनिशं शिश्रियुः श्रियः ॥७॥ तस्य श्रियामपाराणां स्पर्धयेव यशांस्यपि । अपारीभूय भुवने व्यभंत निरर्गलम् ।। ८ ।। तस्यामलयशोराशेर्नामधेयमगीयत । सुरखेचरनारीभिर्वेताळ्याधित्यकास्वपि ।। ९ ।। तस्याग्रमहिषी प्राणवल्लभा रुपशालिनी । अभूल्लक्ष्मीवती नाम लक्ष्मीर्लक्ष्मीपतेरिव ।।१०॥ १ उडूनि नक्षत्राणि । २ दंतताडंकं कर्णभूषणम् । ३ स्थितस्य । नलदमयंती चरिते | तयोरुत्तरभवः। ॥ || ८९॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy