________________
त्रिषष्टिशलाकापुरुषचरिते
||८८॥
अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
एत्य डिंभो जरासंधद्वाःस्थस्तं नृपमब्रवीत् । नंदिषेणाप्राणदाता प्रेष्यतामुपकार्ययम् ।। ५८१ ।। राज्ञापि युक्तमित्युक्ते सह तेनैव वेत्रिणा । रथारुढो ययौ शौरिर्मगधेश्वरपत्तनम् ।। ५८२ ।। बद्धस्तत्र स आरक्षरपृच्छबंधकारणम् । तेऽप्याचख्युर्जरासंधस्याख्यातं ज्ञानिना ह्यदः ।। ५८३ ॥ नंदिषेणां दुहितरं यस्ते सज्जीकरिष्यति । हंता ते तत्सुतोऽनश्यं ज्ञातश्चासीति हन्यसे ।। ५८४ ।। इत्युक्त्वा यादवं वध्यस्थाने पशुमिवानयन् । असज्जन मुष्टिकाद्याश्च ते दशाह निबर्हितुम् ।। ५८५ ।। तदा गंधसमृद्धेशोऽपृच्छत्गंधारपिंगलः । प्रभावत्या वरं विद्यां वसुदेवं च सावदत् ।। ५८६ ।। तेन प्रैषि तमानेतुं तत्र धात्री भगीरथी । सा निन्ये तेभ्य आच्छिद्य शौरि गंधसमृद्धके ।। ५८७ ॥ पर्यणैषीत्तत्र शौरिः पितृदत्तां प्रभावतीम् । रममाणस्तया सार्धं चावतस्थे यथासुखम् ।। ५८८ ॥
विद्याधरस्त्रीरपराश्च शौरिर्गत्वोपयेमे च सुकोशलां च । सुकोशलायाः सदने स्थितश्च प्रत्यूहहीनं विषयानभुंक्त ।। ५८९ ॥
* * * इत्याचार्यश्रीहेमचंद्रविरचिते त्रिषष्टिशलाकापुरुषचरिते | महाकाव्येऽष्टमपर्वणि श्यामादिसुकोशलांतकन्यापरिणयनो
नाम द्वितीयः सर्गः । १ मारयितुम् । २ निर्विघ्नम् ।
वसुदेवस्य वधाद्रक्षणम्, राजपुत्रीप्रभावत्योपयमनं च ।
|| ८८॥