________________
त्रिषष्टिशलाका
पुरुषचरिते
॥८७॥
अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
ऊचे मानसवेगः प्राक् सोमश्रीर्मम कल्पिता । अनेन हि च्छलादूढा मददत्ता च मत्स्वसा ।। ५६८ ।। उवाच शौरिः सोमश्रीर्मयोढा पितृकल्पिता । तां जड़ेऽसौ वेगवत्याः सर्वं वेत्ति जनोऽपि तत् ।। ५६९ ।। एवं मानसवेगस्तु जितो युद्धार्थमुत्थितः । नीलकंठोऽङ्गारकश्च सूर्पकाद्याश्च खेचराः ।। ५७० ।। ददौ वेगवतीमाताऽङ्गारवत्यथ शौरये । दिव्यं धनुर्निषंगौ च प्रज्ञप्ती तु प्रभावती ।। ५७१ ॥ विद्यादिव्यास्त्रपुष्टौजा बिडौजा इव यादवः । एकोऽपि खेचरान् सर्वानजैषील्लीलयैव तान् ।। ५७२ ॥ बद्ध्वा मानसवेगं चाक्षिपत् सोमश्रियः पुरः । श्वश्वा अंगारवत्याश्च गिरा शौरिर्मुमोच तम् ।। ५७३ ।। || वृतो मानसवेगाथै त्यीभूतैः स खेचरैः । सोमश्रीयुग्विमानस्थो महापुरपुरं ययौ ।। ५७४ ।। तत्र सोमश्रिया सार्धं विललास यदूद्वहः । अन्येधुः सूर्पकणाश्वीभूय जहे स मायिना ।। ५७५ ॥ ज्ञात्वा च मुष्टिना शौरिस्ताडयामास सूर्पकम् । सूर्पकेण ततो मुक्तः सोऽपतज्जाह्नवीजले ।। ५७६ ॥ स उत्तीर्य गंगायाः प्रययौ तापसाश्रमम् । तत्रैक्षिष्ट स्त्रियं चैकां कंठन्यस्तास्थिमालिकाम् ।। ५७७ ।। पृष्टाश्च तापसा आख्यज्जितशत्रुनृपप्रिया । जरासंधस्य पुत्रीयं नदिषेणेति नामतः ।। ५७८ ॥ वशीकृता परिव्राजेकेनैषा स च भूभुजा । हतस्तदस्थीन्यद्यापि धत्तेऽसौ दृढकर्मणा ।। ५७९ ।। ततो मंत्रबलाच्छौरिस्तां चक्रे गतकार्मणाम् । जितशत्रुर्ददौ तस्मै जामि केतुमती निजाम् ।। ५८० ।। १ मयाऽदत्ता । २ तृतीयैकवचनम् ।
| वसुदेवस्य प्रज्ञप्त्यादि
विद्याप्तिः ।
।। ८७॥