________________
त्रिषष्टिशलाकापुरुषचरिते
॥८६॥
अष्टमं पर्व द्वितीयः | सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
| वसुदेवस्य
त्वदर्थेऽष्टमभक्तेन तयास्म्याराधितानघ । मयादिष्टस्त्वामवोचद्वेत्रभृद्गंधरक्षितः ।। ५५४ ।। अज्ञानात्त्वमवज्ञासीरधुना तु ममाज्ञया । तेनाहूतः परिणयेरेणीपुत्रस्य तां सुताम् ।। ५५५ ।। याचस्व च वरं कचिदित्युक्तो यादवोऽवदत् । मया स्मृता समागच्छेः प्रतिपेदे च सा तथा ।। ५५६ ।। शौरि बंधुमतीगेहे मुक्त्वा देवी तिरोदधे । प्राताःस्थेन सहितः शौरिरायतने ययौ ।। ५५७ ।। प्रियंगुसुंदरी तत्र पूर्वायातामुपायत । गांधर्वेण विवाहेन यादवः परया मुदा ।। ५५८ ।। देवीदत्तं वरं शौरिं स द्वाःस्थोऽष्टादशे दिने । राज्ञे व्यजिज्ञपद्राजाप्यानैषीत्तं स्ववेश्मनि ।। ५५९ ।। इतश्च वैतादयगिरौ पुरे गंधसमृद्धके । गंधारपिंगलो राजा तस्य कन्या प्रभावती ।। ५६० ॥ सा भ्रमंती सुवर्णाभ नगरेऽगाद्ददर्श च । सोमश्रियं सखीत्वेन सपदि प्रत्यपादि च । ।। ५६१ ।। तस्याश्च पतिविरहं ज्ञात्वोवाच प्रभावती । मा ताम्य सखि भर्तारमानयामि तवाधुना ।। ५६२ ।। ऊचे निःश्वस्य सोमश्री वेगवत्यानयद्यथा । आनेष्यसि तथैव त्वं नाथं मे रुपमन्मथम् ॥ ५६३ ।। न ह्यहं वेगवत्यस्मीत्युदित्वा च प्रभावती । श्रावस्त्यामेत्य वार्ष्णेयं गृहीत्वा तत्र चानयत् ।। ५६४ ।। कृतान्यरुपस्तत्रास्थाच्छौरिः सोमश्रिया समम् । ज्ञातो मानसवेगेन बद्धश्चान्येधुरेत्य सः ॥५६५ ।। जाते कलकले शौरिर्मोचितो वृद्धखेचरैः । तेन मानसवेगेन विवादश्च प्रचक्रमे ।। ५६६ ।। वैजयंत्यां ततः पुर्यां बलसिंहनृपांतिके । तौ वादेऽधिष्ठितौ तत्र ते चैयुः सूर्पकादयः ।। ५६७ ।।
एणीपुत्र
। सुतया
| प्रियशबसुन्दर्या
| विवाहः ।
| ।। ८६॥