________________
त्रिषष्टिशलाकापुरुषचरिते
॥८५॥
| अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
इत्युक्ते तद्बलान्येयुस्तामापृच्छ्य ययौ च सः । तत् सापि पितुराचख्यौ क्रमाच्च सुषुवे सुतम् ।। ५४१ ॥ तेन प्रसवरोगेण ऋषिदत्ता व्यपद्यत । ज्वलनप्रभनागस्याग्रमहिषी बभूव च ।। ५४२ ।। तत्पिता मोघरेतास्तं पाणिनादाय दारकम् । रुरोद तापसः शोकादस्तोकं सोऽन्यलोकवत् ।। ५४३ ।। ज्वलनप्रभभार्या तु साहं ज्ञात्वावधेः स्वयम् । तत्रैत्य तं मृगीरुपा स्तन्येनावर्धयं सुतम् ।। ५४४ ।। एणीपुत्र इति नाम्ना विख्यातस्तेन सोऽभवत् । मृत्वाभूत्कौशिकोऽहिग्विषो मत्पितुराश्रमे ।। ५४५ ।। मत्तातं सोऽदशत् क्रूरो हृतं तस्य मया विषम् । बोधितः सोऽप्यहिर्मृत्वा बलो नाम सुरोऽभवत् ।।५४६ ॥ ऋषिदत्तावपुः कृत्वा श्रावस्त्यामेत्य भूपतेः । तस्यार्पयं सुतं तच्चासंस्मरन् सोऽग्रहीन्न हि ।। ५४७ ।। मुक्त्वा तस्यांतिके पुत्रं स्थित्वाकाशेऽहमभ्यधाम् । वने तदर्षिदत्ताख्या कन्याहं रमिता त्वया ।। ५४८ ॥ त्वत्तः सुतोऽसौ जज्ञेऽस्मिन्-जायमाने मृता त्वहम् । देवत्वं प्रापवत्येणीभूय चैनमवर्धयम् ।। ५४९ ॥ एणीपुत्रः सुतस्तेऽसावित्युक्ते तु शिलायुधः । राज्ये निधाय तं पुत्रं प्रव्रज्य त्रिदिवं ययौ ।। ५५० ॥ एणीपुत्रेणापत्यार्थेऽष्टमभक्तेन तोषिता । अदां पुत्रीमहं जज्ञे चैषा प्रियंगुसुंदरी ।। ५५१ ॥ अस्याः स्वयंवरे राज्ञानेनाहूता महीभुजः । न चैकोऽप्यनया वव्रे युद्धं चारंभि राजभिः ॥ ५५२ ।। मत्सान्निध्याज्जिताः सर्वेऽप्येणीपुत्रेण भूभुजः । प्रियंगुसुंदरी सा तु त्वां दृष्ट्वाद्य वुवूर्षति ।। ५५३ ॥ १ वरितुमिच्छति ।
एणीपुत्रवृत्तान्तः।
॥ ८५||