________________
त्रिषष्टिशलाकापुरुषचरिते
॥८४॥
अष्टमं पर्व | द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
कुतः फलानीशानि पृष्टौ राज्ञोचतुश्च तौ । हरिवंशोत्पत्त्यानीतकल्पद्रोरादितः कथाम् ।। ५२८ ।। छुर्या तदा च नृत्यंती जहे कामपताकिका | चारुचंदकुमारस्य कौशिकर्षेश्च मानसम् ।। ५२९ ।। यज्ञे वृत्ते कुमारस्तामात्मसादकरोद्रुतम् । स तापसः कौशिकस्तु पार्थिवात्तामयाचत ।। ५३० ।। ऊचे राजा कुमारेण गृहीता श्राविका त्वसौ । प्रतिपन्ने सति पत्यौ न द्वितीयं पतिं भजेत् ।। ५३१ ।। एवं च राज्ञा प्रतिषिद्धः संक्रुद्धः कौशिकोऽशपत् । रमयिष्यसि चेन्नारी तत्तदैव मरिष्यसि ।। ५३२ ।। राजाथ चारुचंद्राय दत्वा राज्यं स्वसूनवे । प्रपेदे तापसीभूय वनवासं महामतिः ।। ५३३ ।। अज्ञातगर्भा तद्राज्ञी वनं तेन समं ययौ । कालेन प्रकटं गर्भ पत्युश्शंकाच्छिदेऽवदत् ।। ५३४ ॥ तया च सुषुवेऽन्येधुषिदत्तेति कन्यका । क्रमेण श्राविका साभूच्चारणश्रमणांतिके ।। ५३५ ॥ सा प्राप यौवनं तस्या मातृधात्र्योऽनियंत च । तत्रान्येधुर्मूगव्येनाययौ राजा शिलायुधः ।। ५३६ ॥ तद्दर्शनात् कामवशस्तदातिथ्यं प्रपद्य च । नीत्वैकांतेऽरमयत्तां नानाभंग्याशिलायुधः ॥ ५३७ ।। साप्यूचेऽहमृतुस्नाता गर्भः स्याच्चेत्कथंचन । आख्याहि कुलकन्यायास्तदा का नाम मे गतिः ।। ५३८ ।। सोऽप्युवाचाहमैक्ष्वाकः श्रावस्त्यां पुरि पार्थिवः । शिलायुधो नामधेयाच्छतायुधनृपात्मजः ।। ५३९ ।। यदि ते जायते पुत्रः श्रावस्त्यां स ममांतिके । त्वयानेयो मया कार्यः स एव नृपतिस्तदा ।। ५४० ।। १ मृगयया । २ विविधविलासरचनया ।
| एणीपुत्रवृत्तान्तः ।
॥८४॥