________________
त्रिषष्टिशलाकापुरुषचरिते
॥८३॥
| अष्टम पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
श्रेष्ठिना तद्वरार्थे च पृष्टो ज्ञान्याख्यदत्र यः । उद्घाटयेन्मुखद्वारं स भावी त्वत्सुतावरः ।। ५१५ ।। वसुदेवस्तदाकर्ण्य तद्द्वारमुदघाटयत् । श्रेष्ठी तत्रैत्य तां कन्यां ददौ तस्मै तदैव हि ।। ५१६ ॥ तं द्रष्टुं कौतुकाद्राजपुत्री पित्रा सहागता । प्रियंगुसुंदरी दृष्ट्वा चानंगाभिवत् क्षणात् ।। ५१७ ।। द्वाःस्थः प्रियंगुसुंदर्यास्तां दशां वृष्णिजन्मने । एणीपुत्रचरित्रं चाकीर्तयद्रचितांजलिः ।। ५१८ ॥ गृहे प्रियंगुसुंदर्या अवश्यं प्रातरापतेः । इत्युक्त्वा ययौ द्वाःस्थ शौरिस्त्वैक्षिष्ट नाटकम् ।। ५१९ ॥ तत्राोषीन्नमिपुत्रो वासवः खेचरोऽभवत् । तद्वंश्या वासवाश्चान्ये पुरुहूतश्च तद्भवः ।। ५२० ॥ पर्यटन् द्विपमारुढः पुरुहूतोऽन्यदैवत । अहल्यां गौतमभार्या रमयामास चाश्रमे ॥ ५२१ ॥ तदा तस्यापविद्यस्य पुंलिंगं गौतमोऽच्छिदत् । तच्छुत्वा यादवो भीतो नागात् प्रियंगुसुंदरीम् ।। ५२२ ॥ बंधुमत्या समं शौरिः सुप्तो निद्रात्यये च सः । निशि देवी ददर्शकां कासाविति विचिंतयन् ।। ५२३ ।। किं चिंतयसि वत्सेति जल्पंती सापि देवता । पाणौ गृहीत्वानैषीत्तमशोकवनिकांतरे ।। ५२४ ॥ इत्यूचे चात्र भरते श्रीचंदनपुरे पुरे । अमोघरेता भूपोऽभूत्तस्य चारुमती प्रिया ।। ५२५ ।। चारुचंद्रः सुतो वेश्यानंगसेनेति नामतः । तस्याः कामपताकेति पुत्री चासीत् सुलोचना ।। ५२६ ।। राज्ञो यज्ञेऽथ तस्यैयुस्तापसास्तेषु कौशिकः । तृणबिंदुश्चोपाध्यायौ फलान्यार्पयतामुभौ ।। ५२७ ।। १ कामपीडिता । २ अपगता विद्या यस्य तस्य
| एणीपुत्रवृत्तान्तः।
।। ८३॥