________________
त्रिषष्टिशलाकापुरुषचरिते
||८२॥
अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
जातमात्रोऽपि मत्पादौ नमति स्म चलेक्षणः । भयाद्वेपथुमांस्तेन त्रातोऽयं कृपया मया ।। ५०२ ।। त्वमप्यस्याभयं देहि कोऽपि जातिस्मरो ह्ययम् । इत्युक्तो महिषं श्रेष्ठी श्रावस्त्यां कृपयानयत् ।। ५०३ ॥ राजा तस्याभयं तेन याचितः श्रेष्ठिना ददौ । श्रावस्त्यां निर्भयमसौ सर्वत्रापि भ्रमत्विति ।। ५०४ ॥ मृगध्वजकुमारेणाघ्रिरेकस्तस्य चिच्छिदे । स तु निर्वासितो राज्ञा प्रव्रज्यां प्रत्यपद्यत ॥ ५०५ ॥ व्यापादि महिषः सोऽष्टादशे च दिवसे ततः । मृगध्वजस्य द्वाविंशे दिने जज्ञे तु केवलम् ।। ५०६ ॥ देवासुरनृपामात्यास्तामागत्य ववंदिरे । जितशत्रुपस्तूचे किं वैरं महिषेण वः ।। ५०७ ॥ शशंस केवली पूर्वमश्वग्रीवोऽर्धचक्र्यभूत् । तस्यामात्यो हरिश्मश्रुः कौलो धर्म निनिंद सः ।। ५०८ ।। राजा समर्थयामास सदा धर्म स आस्तिकः । एवं विरोधो ववृधे तयोर्नृपतिमंत्रिणोः ॥ ५०९ ।। तौ त्रिपृष्टाचलाभ्यां च हतौ सप्तममीयतुः । नरकं तत उद्धृतौ भ्रमतुर्बहुधा भवम् ।। ५१० ।। अश्वग्रीवस्ततः सोऽहमभूवं तव नंदनः । हरिश्मश्रुर्महिषोऽभूत्तद्वैराच्च हतो मया ।। ५११ ॥ मृत्वाभवल्लोहिताक्षाभिधोऽयमसुराग्रणीः । वंदितुं मां समायातो भवनाटकमीशम् ॥ ५१२ ॥ तं नत्वर्षि लोहिताक्षस्तस्यर्षेः श्रेष्ठिनोऽपि च । त्रिपदो महिषस्यापि रत्नमूर्तीरिहाकरोत् ॥५१३ ।। श्रेष्ठिनः कामदेवस्य वंशे तस्यास्ति संप्रति । कामदत्त इति श्रेष्ठी तस्य बंधुमती सुता ॥ ५१४ ॥ १ तांत्रिकमतज्ञाता।
| एणीपुत्रवृत्तान्तः।
।। ८२॥