________________
त्रिषष्टिशलाकापुरुषचरिते
॥१०॥
अष्टमं पर्व तृतीयः | सर्गः श्रीअरिष्ट| नेमिजिनचरितम् ।
शीलेन लज्जया प्रेम्णा दाक्ष्येण विनयेन च । बभूव सा पतिमनःकुमुदानंदचंद्रिका ॥ ११ ॥ आलपंती प्रणयिनः प्रीतिकोमलया गिरा । सा सुधासारणिमिवादधे तत्कर्णरंध्रयोः ।। १२ ।। सा कलाभिः पल्लविता पुष्पिता ह्यादिभिर्गुणैः । पतिभक्त्या च फलिता बभौ वल्लीव जंगमा ॥ १३ ॥ कालेन गच्छता लक्ष्मीवत्या प्रसुषुवे सुता । सूतिकागृहमांगल्यदीपिकेव स्वरोचिषा ।। १४ ।। सर्वलक्षणया जातमात्रयापि तया तदा । श्रियेव गृहमेयुष्या पितरौ तावहृष्यताम् ।। १५ ॥ पूर्वजन्मपतिस्तस्या धनदोऽभ्येत्य तत्क्षणम् । तत्रातनिष्ट कनकवृष्टिं प्राक्स्नेहमोहितः ।। १६ ।। तया कनकवृष्ट्या च हृष्टो लक्ष्मीवतीपतिः । तस्याः सुतायाः कनकवतीति विदधेऽभिधाम् ।। १७ ।। अंकादंकं संचरन्ती सा धात्रीणां स्तनंधयी । क्रमाद्बभूव हंसीव पादचंक्रमणक्षमा ।। १८ ।। तां पद्भ्यामुपसर्पन्तीं दृष्ट्वा प्रक्रांततालिकाः । उल्लापनैर्नवनवैर्गायन्ति स्मोपमातरः ।। १९ ॥ शनैः शनैस्तां जल्पंती लल्लमन्मनया गिरा । मुहुरालापयन् धात्र्यः शारिकामिव कौतुकात् ।। २० ।। आबद्धकुन्तला लोलकुंडला क्वाणिनूपुरा । सा रत्नकंदुकै रेमे रमेवापरमूर्तिभाक् ।। २१ ।। कृत्रिमैः पुत्रकैर्नित्यं रममाणा ववर्ष सा । हर्षप्रकर्षमुद्दामं मातुरुन्निद्रचक्षुषः ।। २२ ।। १ पत्युः भर्ना सहेत्यर्थः । २ आह्वानैः । ३ धात्र्यः । ४ अस्फुटया "तोतडी" इति भाषायां । ५ क्वाणः शब्दस्तद्वन्नूपुरं यस्याः सा शब्दितनूपुरेत्यर्थः । ६ पांचालिकैः । ७ प्रफुल्लनेत्रायाः ।
नलदमयंती चरिते तयोरुत्तरभवः।
|| ९०॥