________________
त्रिषष्टिशलाकापुरुषचरिते
॥१०॥
सप्तमं पर्व प्रथमः सर्गः रामलक्ष्मणरावणचरितम् ।
अथ रक्षःपतिर्माली सुमालिप्रमुखैर्वृतः । सयूथ इव वन्येभः ससंरम्भोऽभ्यधावत ।। १२४ ।। गदामुद्गरनाराचैः करकैरिव वारिदः । उपदुद्रावेन्द्रचमूं वीर्यद्रविणेश्वरः ।। १२५ ।। सलोकपालः सानीकः सानीकपतिरुच्चकैः । इन्द्रोऽप्यैरावणारूढो डुढौके रणकर्मणे ।। १२६ ।। स इन्द्रो मालिना लोकपालप्रभृतयः पुनः । सुमालिप्रमुखैः सार्धं योद्धमारेभिरे भटाः ।। १२७ ।। तेषां चिरमभूधुद्धं प्राणसंशयकृन्मिथः । जयाभिप्रायिणां प्रायः प्राणा हि तृणसन्निभाः ।। १२८ ।। इन्द्रो द्रागथ निर्दम्भरणो दम्भोलिनाऽवधीत् । विद्युतेवाऽम्बुदो गोधां मालिनं वीर्यमालिनम् ।। १२९ ॥ हते मालिनि वित्रेसू राक्षसा वनाराश्च ते । सुमाल्यधिष्ठिताश्चेयुर्लङ्कां पातालवर्तिनीम् ।। १३० ।। विश्रवःसूनवे सद्यः कौशिकाकुक्षिजन्मने । लङ्कां वैश्रमणायाऽदादिन्द्रः स्वं च पुरं ययौ ।। १३१ ।। पुर्या पातललङ्कायां तिष्ठतश्च सुमालिनः । प्रीतिमत्यां सधर्मिण्यां जज्ञे रत्नश्रवाः सुतः ।। १३२ ।। सम्प्राप्तयौवनो रत्नश्रवा रम्यमथान्यदा । जगाम कुसुमोद्यानं विद्यासाधनहेतवे ।। १३३ ।। तत्रैकत्र रहःस्थाने सोऽक्षमालाधरो जपन् । नासाग्रन्यस्तदृक् तस्थाालेखित इव स्थिरः ।। १३४ ।। इत्थं च तस्थुषे तस्मै काऽपि तस्थौ समीपतः । विद्याधर्यनवद्याङ्गी कुमारी पितृशासनात् ।। १३५ ।। तदानीं च महाविद्या नाम्ना मानवसुन्दरी । अस्मि सिद्धा तवेत्युच्चै रत्नश्रवसमभ्यधात् ।।१३६ ॥ रत्नश्रवाः सिद्धविद्यो जपमालां मुमोच च । ददर्श च पुरस्णां तां विद्याधरकुमारिकाम् ।। १३७ ।। इाउंगाः हेतुना केन ? कस्य ? वा काऽसि ? वेति च । रत्नश्रवा बभाषे तां साऽप्येवं प्रत्यभाषत ।।१३८ । १ वजेण । २ चित्रित इव । ३ आगताऽसि ।
इन्द्रेण सह मालीभूपस्य युद्धम् ।
॥१०॥