________________
सप्तमं पर्व
त्रिषष्टिशलाकापुरुषचरिते 1॥११॥
प्रथमः सर्गः रामलक्ष्मणरावणचरितम् ।
अनेककौतुकागारे पुरे कौतुकमङ्गले । विद्याधरपतिक्रेमबिन्दु माऽस्ति विश्रुतः ।। १३९ ।। तस्याऽस्ति ज्यायसी पुत्री कौशिका नाम मे स्वसा । ऊढा यक्षपुरेशेन राज्ञा विश्रवसा तु सा ।। १४० ॥ तस्या वैश्रमणो नाम बभूव तनयो नयी । राज्यं करोति लङ्कायां योऽधुना शक्रशासनात् ।। १४१ ॥ अहं तु कैकसी नाम कौशिकायाः कनीयसी । नैमित्तिकगिरा पित्रा दत्ता तुभ्यसिहाऽऽगमम् ।। १४२ ।। आहूतबन्धुस्तत्रैवोपयेमे तां सुमालिसूः । पुष्पान्तकं पुरं न्यस्य चाऽस्थात् क्रीडंस्तया सह ।। १४३ ।। अन्यदा कैकसी स्वप्ने विशन्तं स्वमुखे निशि । कुम्भिकुम्भस्थलीभेदप्रसक्तं सिंहमैक्षत ॥ १४४ ।। तया तं स्वप्नमाख्यातं व्याख्याद्रनश्रवाः प्रगे । सूनुस्ते विश्वशौण्डीरो भविष्यति महाभुजः ।। १४५ ।। स्वप्नादनन्तरं तस्माच्चैत्यपूजां चकार सा । बभार च महासारं गर्भ रत्नश्रवःप्रिया ।। १४६ ॥ तस्य गर्भस्य सम्भूतेः प्रभृत्यत्यन्तनिष्ठुरा । वाणी बभूव कैकस्या दृढं चाऽङ्गं जितश्रमम् ।। १४७ ।। दर्पणे विद्यमानेऽपि सा खड्गेऽपश्यदाननम् । आज्ञां दातुमभिप्रैषीत् सुरराज्येऽप्यशङ्कितम् ॥ १४८ ॥ विनाऽपि हेतुं हुंकारमुखरं सा दधौ मुखम् । अनामयच्च मूर्धानं कथञ्चिन्न गुरुष्वपि ॥ १४९ ।। विद्विषां मूर्धसु चिरं पादं दातुमियेष सा । इत्यादिदारुणान् भावान् दधे गर्भप्रभावतः ।। १५० ॥ प्रतिपक्षासनोत्कम्पं कुर्वाणस्तनयस्तया । साधिकद्वादशसमासहस्रायुरजन्यत ।। १५१ ।। उल्ललत्सूतिकातल्पेऽनल्पौजाः कम्पयन् महीम् । उत्तानशय उद्दामपादकोकनदोऽथ सः ।। १५२ ॥ भीमेन्द्रेण पुरा दत्तं नवमाणिक्यनिर्मितम् । चकर्ष पाणिना हारं पार्श्वस्थितकरण्डकात् ।। १५३ ।। १ आहूता बन्धवो येन सः । २ कुम्मिनो गजस्य कुम्भस्थलभेदने प्रसक्त आसक्तस्तम् । ३ प्रातःकाले । ४ कोकनदं रक्तकमलम् । ५ नवनिर्माणिक्यैर्निर्मितम् ।
कैकस्याः स्वप्ने सिंहदर्शनम् ।
॥११॥