________________
त्रिषष्टिशलाकापुरुषचरिते
॥९॥
सप्तमं पर्व प्रथमः सर्गः रामलक्ष्मणरावणचरितम् ।
तनयः सूरकनकावल्योरुत्तरदिक्पतिः । कुबेर इति विख्यातोऽभूत् काञ्चनपुरेश्वरः ।। ११० ।। कालाग्निश्रीप्रभासूनुः किष्किन्धनगराधिपः । अभूदपाच्यां दिक्पालो यम इत्यभिधानतः ।। १११ ॥ विद्याधरेन्द्रमिन्द्रं तमिन्द्रोऽहमिति मानिनम् । गन्धेभोऽन्यमिभमिव न सेहे मालिभूपतिः ।। ११२ ।। भ्रातृभिश्च मन्त्रिभिश्च मित्रैश्चाऽतुलविक्रमैः । स चचालेन्द्रयुद्धाय नाऽन्यो मन्त्री हि दोष्मताम् ।। ११३ ।। । सिंहद्विपाश्वमहिषवराहवृषभादिभिः । यानैः प्रचेलुः खेऽन्येऽपि रक्षोवीराः सवानराः ।। ११४ ॥ रिष्टाः खराः फेरेवश्च सारसाश्च वैवाशिरे । दक्षिणस्था अपि फले तेषां वामत्वधारिणः ।।११५ ।। अन्यान्यप्यशकुनानि दुर्निमित्तानि चाऽभवन् । माली सुमालिनाऽवारि प्रयाणाच्च सुमेधसा ।। ११६ ॥ अवज्ञाय वचस्तस्य माली दोर्बलगर्वितः । जगाम वैताह्यगिराविन्द्रमालास्त चाऽऽजये ॥११७ ॥ इन्द्रोऽप्यैरावणारूढः पाणिनोल्लालयन् पविम् । सेनानाथै गमेषिप्रमुखैः परिवारितः ।। ११८ ॥ सोमाद्यैर्लोकपालैश्च विविधायुधधारिभिः । विद्याधरभटैश्चाऽन्यै रणक्षेत्रमुपाययौ ।। ११९ । ।युग्मम् ।। इन्द्रराक्षससैन्यानां सम्फेटोऽभूत् परस्परम् । तडिन्निभानभीष्माणामम्भोदानाभिवाऽम्बरे ।। १२० ॥ निपेतुः स्यन्दनाः क्वाऽपि शिखराणीव भूभृताम् । पलायन्त गजाः क्वाऽपि वातोद्भूता इवाऽम्बुदाः ।। १२१ ॥ पेतुर्भटानां मूर्धानो राहुशङ्काप्रदाः क्वचित् । कृत्तैकपादाः क्वाऽप्यश्वाश्चेलुः सन्दानिता इव ।। १२२ ।। अमर्षादिन्द्रसैन्येन मालिसैन्यमभज्यत । बलवानपि किं कुर्यात प्राप्तः केशरिणा करी ? ॥ १२३ ।। १ आकाशे । २ गर्दभाः । ३ शृगालाः । ४ शब्दं चक्रुः । ५ न्यषेधि । ६ युद्धाय । ७ छिन्न एकः पादो येषां ते । ८ बद्धाः ।
इन्द्रेण सह मालीभूपस्य युद्धम् ।
॥ ९
॥