________________
त्रिषष्टिशलाका
पुरुषचरिते
सप्तमं पर्व प्रथमः सर्गः रामलक्ष्मणरावण|चरितम् ।
॥८॥
इतश्च वैताढ्यगिरौ नगरे रथनूपुरे । सहस्रारनरेन्द्रस्याऽशनिवेगाङ्गजन्मनः ।। ९७ ।। भार्यायाचित्रसुन्दर्या गर्ने कश्चित्सुरोत्तमः । प्रच्युत्याऽवातरत्सद्या दृष्टे सुस्वप्नमगले ।। ९८ ।। ।। युग्मम् ॥ काले च दोहदस्तस्याः शक्रसम्भोगलक्षणः । दुष्पूरो दुर्वचश्चाऽभूद्देहदौर्बल्यकारणम् ॥ ९९ ।। निर्बन्धेन तु सा पृष्टा कथञ्चिदपि दोहदम् । कथयामास तं पत्ये लज्जावनमदानना ।। १०० ॥ सहस्रारः सहस्राक्षरूपं निर्माय विद्यया । तया शक्र इति ज्ञातः पूरयामास दोहदम् ।। १०१ ।। असूत समये सूनुमनूनभुजविक्रमम् । इन्द्र इत्युक्तनामानमिन्द्रसम्भोगदोहदात् ।।१०२ ।। सम्प्राप्तयौवनायाऽस्मै विद्यादोर्वीर्यशालिने । ददौ राज्यं सहस्रारः स्वयं धर्मरतोऽभवत् ।। १०३ ॥ स सर्वान् साधयामास विद्याधरनरेश्वरान् । इन्द्रमन्यश्च समभूदिन्द्रदोहदजन्मतः ।। १०४ ।। दिक्पालांश्चतुरश्चक्रे सप्ताऽनीकान्यनीकपान् । तिस्रः परिषदो वज्रमस्त्रमैरावणं द्विपम् ।। १०५ ॥ रम्भादिका वारवधूर्मन्त्रिणं च बृहस्पतिम् । नैगमेषिसमाख्यं च पत्त्यनीकस्य नायकम् ।। १०६ ।।
॥युग्मम् ॥ एवं विद्याधरैरिन्द्रपरिवाराभिधाधरैः । इन्द्रोऽहमेवेति धिया सोऽखण्डं राज्यमन्वशात् ।। १०७ ।। माकरध्वजिरादित्यकीर्तिकुक्षिसमुद्भवः । तत्राऽभूत्सोमदिक्पालः प्राच्यां ज्योतिःपुरेश्वरः ।। १०८ ॥ वरुणामेघरथयोः पुत्रः पश्चिमदिक्पतिः । बभूव वरुणो विद्याधरो मेघपुरेश्वरः ॥१०९ ।। १ अशनिवेगपुत्रस्य । २ आग्रहेण । ३ इन्द्ररूपम् । ४ सप्त सैन्यानि सप्त सेनापतींश्च । ५ नैगमेषिणा तुल्याभिधा यस्य तम् । ६ मकरध्वजस्य पुत्रः ।
|चित्रसुन्दर्याः पुत्रजन्मः ।
॥८
॥