________________
सप्तमं पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते
७॥
सर्गः रामलक्ष्मणरावणचरितम् ।
ततो विजयसिंहेभसिंहस्याऽऽजिमुखेऽच्छिदत् । शिरोऽन्धकस्य रोषान्धोऽशनिवेगो महाभुजः ।। ८२ ।। ततो वानरसैन्यानि सदैत्यानि दिशो दिशम् । पवनास्फालिताम्भोदपटलानीव दुद्रुवुः ॥ ८३ ।। सान्तःपुरपरीवारौ लङ्काकिष्किन्धनायकौ । पाताललङ्कां ययतुः क्वाऽप्युपायोऽपसर्पणम् ।। ८४ ।। निहत्य सुतहन्तारमाराधरमिव द्विपः । प्रशान्तकोपः समभूद्रथनूपुरपार्थिवः ।। ८५ ।। मुदितो वैरिनिर्घातान्निर्घातं नाम खेचरम् । स राजस्थापनाचार्यो लङ्काराज्ये न्यवेशयत् ।। ८६ ॥ ततो निवृत्य वैताढ्ये स्वपुरे रथनूपुरे । अमरेन्द्रोऽमरावत्यामिवागादशनिर्नृपः ।। ८७ ॥ अन्येधुर्जातसंवेगोऽशनिवेगनृपः स्वयम् । सहस्रारे सुते राज्यं न्यस्य दीक्षामुपाददे ।। ८८ ॥ पुर्यां पाताललङ्कायां सुकेशस्याऽपि सूनवः । इन्द्राण्यामभवन् माली सुमाली माल्यवानपि ।। ८९ ॥ श्रीमालायां च किष्किन्धेझै बभूवतुरात्मजौ । नाम्नादित्यरजा रुक्षरजाश्चेति महाभुजौ ।। ९० ॥ अपरेधुश्च किष्किन्धिः सुमेरौ शाश्वतार्हताम् । यात्रां कृत्वा निवृत्तः सन्नपश्यन्मधुपर्वतम् ॥९१ ।। किष्किन्धेर्विष्वगुद्याने तत्र मेराविवाऽपरे । मनोरमे मनो रन्तुं विशश्रामाधिकाधिकम् ।। ९२ ।। निधाय किष्किन्धपुरं तस्योपरि पराक्रमी । न्यवासीत् सपरीवारः कैलास इव यक्षराट् ।। ९३ ॥ पुत्रास्तेऽपि सुकेशस्य राज्यं श्रुत्वाऽरिभिर्हतम् । क्रुधा त्रयोऽग्नय इव जज्वलुर्वीर्यशालिनः ।। ९४ ।। ते समागत्य लङ्कायां निर्घात खेचरं रणे । न्यगृह्णन्मृत्यवे हि स्याद्वीरैर्वैरं चिरादपि ।। ९५ ।। ततश्च पुर्या लायां राजा माली तदाऽभवत् । किष्किन्धायां तु किष्किन्धिगिराऽऽदित्यरजा नृपः ॥९६ ।। १ विजयसिंह एव गजस्तस्मिन् सिंहसदृशस्याऽन्धकस्य । २ मधुपर्वतोपरि । ३ वीरैः साकम् । ४ किष्किन्धिवचनेन ।
किष्किन्धायां आदित्यरजानृपस्य राज्यम् ।
॥७॥