________________
त्रिषष्टिशलाकापुरुषचरिते
॥६॥
सप्तमं प्रथमः सर्गः रामलक्ष रावणचरितम्
तत्केनाऽमी इहाऽऽनीता दुर्नीताः कुलपांशनाः । तदद्याऽपुनरावृत्त्यै निहन्म्येतान् पशूनिव ॥ ७० ॥ इत्युदीर्य महावीर्यः स उत्थाय यमोपमः । चचाल किष्किन्धिनृपवधायाऽऽयुधमुत्क्षिपन् ।। ७१ ।। किष्किन्धितः सुकेशाद्या अन्ये विजयसिंहतः । रणायोत्तस्थिरे विद्याधराः पौरुषदुर्धराः ।। ७२ ।। दन्तादन्तिप्रवृत्तेभैरुत्स्फुलिङ्गीकृताम्बरः । कुन्ताकुन्तिमिलत्सादी शराशरिमिलद्रथी ।। ७३ ।। खड्गाखड्यापतत्पत्तिरसृक्पङ्किलभूतलः । रणस्ततः प्रववृते कल्पान्त इव दारुणः ।। ७४ ।।
॥युग्मम् ।। चिरं युद्ध्वाऽथ बाणेन किष्किन्ध्यवरजोऽन्धकः । शिरो विजयसिंहस्याऽपातयत् फलवत्तरोः ।। ७५ ॥ त्रेसुश्च विजयसिंहगृह्या विद्याधरेश्वराः । निर्बाथानां कुतः शौर्य ? हतं सैन्यं ह्यनायकम् ।। ७६ ।। श्रीमाला समुपादाय जयश्रियमिवाऽङ्गिनीम् । ययावुत्पत्य किष्किन्धिः किष्किन्धां सपरिच्छदः ।।७७ ।। श्रुत्वा पुत्रवधोदन्तमकाण्डाशनिपातवत् । वेगेनाऽशनिवेगोऽगादधिकिष्किन्धिपर्वतम् ।। ७८ ।। किष्किन्धां नगरी सैन्यैः स चाऽवेष्टदनेकशः । महाद्वीपस्थली द्वीपवतीपूर इवाऽम्बुभिः ।। ७९ ॥ गुहाया इव पञ्चास्यौ योद्धकामौ सहान्धकौ । वीरौ सुकेशकिष्किन्धी किष्किन्धाया निरीयतुः ।। ८० ॥ ततः सर्वाभिसारेणाशनिवेगोऽत्यमर्षणः । योद्धं प्रववृते वीरस्तृणवद्गणयन् परान् ।। ८१ ।। १ कुलाधमाः । २ दन्तादन्तियुद्धे प्रवृत्तैर्गजैः । ३ सादी अश्ववारः । ४ असृजा-शोणितेन पङ्किलं भूतलं यस्मिन् सः । ५ अवरजोऽनुजघ्राता । ६ नदीपूरः । ७ सिंहौ । ८ निर्जग्मुः।
विजय
सिंहस्य पराजय