________________
त्रिषष्टिशलाका
सप्तमं पर्व प्रथमः
पुरुषचरिते
सर्गः
॥५॥
रामलक्ष्मणरावण
चरितम् ।
आचख्यौ मुनिरप्येवं श्रावस्त्यां मन्त्रिनन्दनः । दत्तो नाम पुराभूस्त्वं काश्यामेष तु लुब्धकः ।। ५५ ।। त्वमुपात्तपरिव्रज्योऽन्येधुर्वाराणसीमगाः । दृष्टोऽनेनाऽपशकुनमित्याहत्य निपातितः ।। ५६ ।। माहेन्द्रकल्पे देवोऽभूश्च्युत्वा चेदृगिहाऽभवः । भ्रान्त्वा नरकमेषोऽभूत्कपिस्तद्वैरकारणम् ।। ५७ ।। वन्दित्वा तं महासाधुमसामान्योपकारिणम् । अनुज्ञाप्य च लकेशं सोऽथ देवस्तिरोदधे ।। ५८ ॥ तदाकर्ण्य तडित्केशः सुकेशे तनये निजम् । राज्यं न्यस्य प्रवव्राज वव्राज च परं पदम् ।। ५९ ।। किष्किन्धाराज्यमाधाय पुत्रे किष्किन्धिनामनि । दीक्षां घनोदधिरथोऽप्यादायेयाय निवृतिम् ।। ६० ।। इतश्च वैताळ्यगिरौ नगरे रथनूपुरे । अभूत्तदानीमशनिवेगो विद्याधरेश्वरः ।।६१ ।। तस्यापि सूनुर्विजयसिंह इत्यभवज्जयी । विधुद्वेगो द्वितीयस्तु तद्दोर्दण्डाविवापरौ ।। ६२ ।। गिरौ तत्रैव चाऽऽदित्यपुरे मन्दिरमाल्यभूत् । विद्याधरनृपस्तस्य श्रीमालेति च कन्यका ।। ६३ ।। तस्याः स्वयंवरे तेनाऽऽहूता विद्याधरेश्वराः । ज्योतीषीवाऽधिविमानमधिमञ्चमुपाविशन् ।। ६४ ।। कथ्यमानान् प्रतीहार्या तान् विद्याधरपुङ्गवान् । पस्पर्श दृष्ट्या श्रीमाला कुल्या वृक्षानिवाऽम्भसा ।। ६५ ।। अन्यविद्याधरान् सर्वानतिक्रम्य क्रमेण सा । गत्वाऽवतस्थे किष्किन्धौ जाह्नवीव पयोनिधौ ।। ६६ ।। तस्य कण्ठे निचिक्षेप श्रीमाला वरमालिकाम् । भविष्यद्दोर्लताप्लेषसत्यंकारमिवानघम् ॥ ६७ ॥ उच्चैर्विजयसिंहोऽथ सिंहवत्प्रियसाहसः । भूकुटीभीषणमुखः सरोषमिदमभ्यधाद् ॥ ६८ ।। निर्वासिताः पुराऽप्येते सदा दुर्नयकारिणः । वैताढ्यराजधानीतः सुराज्यादिव दस्यवः ।।६९ ।। १ विमानेषु । २ मञ्चेषु । ३ क्षुद्रनदी । ४ निष्कासिताः । ५ चौराः ।
श्रीमालाहेतुकः विजयसिंहस्य कोपः ।
॥ ५ ॥