________________
त्रिषष्टिशलाका
पुरुषचरि
118 11
प्राग्जन्मनि मया तेपे तपोऽल्पं खलु तेन मे । नन्दीश्वरार्हद्यात्रायां नाऽपूर्यत मनोरथः ।। ४० ।। इति निर्वेदमापन्नः प्राब्राजीत्सद्य एव सः । तपस्तीव्रतरं तप्त्वा सिद्धिक्षेत्रमियाय च ॥ ४१ ॥ श्रीकण्ठतो वज्रकण्ठादिष्वतीतेष्वनेकशः । मुनिसुव्रततीर्थेऽभूद् घनोदधिरथो नृपः ।। ४२ ।। लङ्कापुर्यामपि तदा समभूद्राक्षसेश्वरः । तडित्केश इति नाना जज्ञे स्नेहस्तयोरपि ।। ४३ ।। अपरेद्युस्तडित्केशः सान्तःपुरवधूजनः । ययौ क्रीडितुमुद्याने वरे नन्दननामनि ॥ ४४ ॥ क्रीडासक्ते तडित्केशे कोऽप्युत्तीर्य कपिर्द्रुमात् । श्रीचन्द्रायास्तन्महिष्या विलिलेख नखैः कुचौ ॥ ४५ ॥ रोषोच्छ्वसितकेशस्तं तडित्केशः प्लवङ्गम् । जघानैकेन बाणेनाऽसह्यो हि स्त्रीपराभवः ।। ४६ ।। बाणप्रहारविधुरः किञ्चिद्गत्वा प्लवङ्गमः । एकस्य प्रतिमास्थस्य साधोरग्रे पपात सः ।। ४७ ।। सोऽदात्तस्मै नमस्कारं परलोकाध्वशम्बलम् । मृत्वा च तत्प्रभावेणाऽब्धिकुमारो बभूव सः ॥। ४८ ।। प्राग्जन्म सोऽवधेर्ज्ञात्वाभ्येत्यावन्दिष्ट तं मुनिम् । वन्दनीयः सतां साधुह्युपकारी विशेषतः ।। ४९ ।। अन्यानपि तडित्केशभटैस्तत्र प्लवङ्गमान् । हन्यमानान् स ऐक्षिष्ट सद्यः कोपेन चाज्वलत् ॥ ५० ॥ महाप्लवङ्गरूपाणि विकृत्याऽनेकशश्च सः । वर्षस्तरुशिलाजालैरुपदुद्राव राक्षसान् ।। ५१ ।। ज्ञात्वा दिव्यप्रयोगं तं तडित्केशस्तमुच्चकैः । आनर्चोवाच कोऽसीति किमुपद्रवसीति च ।। ५२ ।। ततः सोऽब्धिकुमारोऽपि शान्तकोपस्तदर्चया । स्ववधं च नमस्कारप्रभावं च शशंस तम् ।। ५३ ।। लङ्केशस्तेन देवेन सहैवोपेत्य तं मुनिम् । इत्यपृच्छत्प्रभो ! वैरहेतुः कः कपिना मम ? ।। ५४ ।। १ शम्बलं पाथेयम् । २ उपद्रवं करोषि ।
सप्तमं पर्व
प्रथमः
सर्गः
रामलक्ष्मण
रावण
चरितम् ।
तडित्केशेन
वानर
हननम् ।
118 11