________________
त्रिषष्टिशलाकापुरुषचरिते
॥३॥
सप्तमं पर्व प्रथमः सर्गः रामलक्ष्मणरावणचरितम् ।
श्रीकण्ठं कीर्तिधवलोऽब्रवीदत्रैव तिष्ठ यत् । वैताट्यशैले युष्माकं भूयांसो विद्विषोऽधुना ।। २५ ॥ अस्यैव राक्षसद्वीपस्याऽदूरेण मरुद्दिशि । विद्यते वानरद्वीपो योजनत्रिशतीमितः ॥ २६ ॥ अन्येऽपि बर्बरकूलसिंहलप्रमुखाः सखे । द्वीपा मदीयास्तिष्ठिन्ति भ्रष्टस्वःखण्डसन्निभाः ।। २७ ॥ तेषामेकत्र कुत्रापि राजधानी निधाय भोः । सुखमास्स्वाऽविदूरत्वादवियुक्तो मया समम् ।। २८ ।। न यद्यपि द्विषद्भ्यस्ते भयमस्ति मनागपि । तथाऽप्यस्मद्विप्रयोगभयान्नो गन्तुमर्हसि ।।२९ ।। सस्नेहमिति तेनोक्तस्तद्वियोगातिकातरः । श्रीकण्ठो वानरद्वीपनिवासं प्रत्यपद्यत ।। ३० ॥ कृत्वाऽधिवानरद्वीपं किष्किन्धाद्रौ महापुरीम् । किष्किन्धां नाम तद्राज्ये तं कीर्तिधवलो न्यधात् ।।३१ ॥ अद्राक्षीद् भ्राम्यतस्तत्र महादेहान् फलाशिनः । भूयसो वानरान् रम्याञ्छीकण्ठपृथिवीपतिः ।। ३२ ।। तेषाममारिमाघोष्य सोऽन्नपानाधदापयत् । सञ्चक्रुस्तानथान्येऽपि यथा राजा तथा प्रजाः ।। ३३ ॥ चक्रुश्चित्रे च लेप्ये च ध्वजछत्रादिलक्ष्मसु । विद्याधरा वानरांस्तै तदा प्रभृति कौतुकात् ॥३४ ॥ वानरद्वीपराज्येन वानरैर्लक्ष्मभिस्तथा । वानरा इति कीर्त्यन्ते तत्स्था विद्याधरा अपि ।।३५ ॥ श्रीकण्ठस्य सुतो जज्ञे वज्रकण्ठोऽभिधानतः । सोत्कण्ठो रणलीलासु सर्वत्राऽकुण्ठविक्रमः ।। ३६ ॥ नन्दीश्वरेऽथ श्रीकण्ठो यात्रायै शाश्वतार्हताम् । अमरान् गच्छतोऽद्राक्षीदास्थानीमास्थितो निजाम् ॥३७॥ वाजीव ग्रामपद्रस्थो वाजिनां मार्गयायिनाम् । तेषां दिविषदां सोऽथान्वचालीद्भक्तिसंयुतः ।। ३८ ॥ विमानं गच्छतस्तस्य स्खलितं मानुषोत्तरे । तरङ्गिणीवेग इव मार्गवर्तिनि पर्वते ।।३९ ।। १ पतितस्वर्गखण्डसदृशाः । २ सुखं तिष्ठ । ३ लक्ष्म चिह्नम् । ४ सभामण्डपम् ।
श्रीकण्ठस्य विमानस्य स्खलनम्।
॥३
॥