________________
त्रिषष्टिशलाकापुरुषचरिते
IR|||
सप्तमं पर्व प्रथमः सर्गः रामलक्ष्मणरावणचरितम् ।
तां कीर्तिधवलोढां तु श्रुत्वा पुष्पोत्तरो नृपः । वैरायते स्मातीन्द्रेण श्रीकण्ठेन च मानदः ॥११॥ श्रीकण्ठेनैकदा मेरोर्निवृत्तेन व्युदैक्ष्यत । पुष्पोत्तरस्य दुहिता पद्मा पद्मेव रूपतः ।। १२ ॥ मनोभवविकाराब्धिसमुल्लासनदुर्दिनम् । अन्योऽन्यमनुरागोऽभूत्सद्यः श्रीकण्ठपद्मयोः ।। १३ ॥ तिष्ठते स्म कुमारी सा श्रीकण्ठायोन्मुखाम्बुजा । स्वयंवरस्रजमिव क्षिपन्ती स्निग्धया दृशा ।। १४ ।। विज्ञाय तदभिप्राय श्रीकण्ठस्तां स्मरातुरः । आदाय व्योममार्गेण गन्तुं प्रववृते द्रुतम् ।। १५ ।। पद्मां हरति कोऽपीति पूत्कुर्वन्ति स्म चेटिकाः । पुष्पोत्तरोऽपि सन्नह्याऽन्वधावत् संबलो बली ।। १६ ।। श्रीकण्ठोऽपि द्रुतं कीर्तिधवलं शरणं ययौ । पद्माहरणवृत्तान्तं कथयामास चाऽखिलम् ।। १७ ।। पुष्पोत्तरोऽपि तत्राऽऽशु प्राप सैन्यैर्निरन्तरैः । आंशाः प्रच्छादयन्नद्भिर्युगान्त इव सागरः ।। १८ ॥ दूतेन कीर्तिधवलः पुष्पोत्तरमभाषत । अविमृष्य प्रयासोऽयं मुधा वः साम्परायिकः ।। १९ ।। कन्या ह्यवश्यं दातव्या कस्मैचन तया यदि । स्वयं वृतोऽसौ श्रीकण्ठस्तदासौ नाऽपराध्यति ।। २०॥ न तद्वो युज्यते योद्धं बुद्ध्वा स्वदुहितुर्मनः । कर्तुं वधूवरोद्वाहकृत्यमेव तु सौम्प्रतम् ।। २१ ।। दूतीमुखेन पद्मापि तदैवेति व्यजिज्ञपत् । वृतो मया स्वयमयं हृताऽहं नाऽमुना पुनः ।। २२ ।। इति पुष्पोत्तरः श्रुत्वा शान्तकोपोऽभवत् क्षणात् । प्रायो विचारचञ्चना कोपः सुप्रशमः खलु ।। २३ ।। श्रीकण्ठपद्मयोस्तत्रैवोत्सवेन महीयसा । कृत्वा विवाहं प्रययौ निज पुयोत्तरः पुरम् ।। २४ ॥ १ कामविकार एव सागरस्तस्य समुल्लासने दुर्दिनम्, अनुरागविशेषणम् । २ सैन्यसहितः ।३ दिशः । ४ युद्धसम्बन्धी प्रयासो यलः । ५ युक्तम् । ६ विचारचतुराणाम् ।
देव्याः कीर्तिधवलेन सह लग्नः । श्रीकण्ठेन पद्मायाः हरणम् ।
|
॥२
॥