SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते 119 11 प्रथमः सर्गः । | लक्ष्मणवासुदेव - पद्मबलदेव - रावणप्रतिवासुदेव-चरितम् अथ श्रीसुव्रतस्वामिजिनेन्द्रस्याऽञ्जनद्युतेः । हेरिवंशमृगाङ्कस्य तीर्थे सञ्जातजन्मनः ॥ १ ॥ बलदेवस्य पद्मस्य विष्णोर्नारायणस्य च । प्रतिविष्णो रावणस्य चरितं परिकीर्त्यते ॥ २ ॥ भरतेऽत्र रक्षोद्वीपे लङ्कायां घनवाहनः । आसीद्रढक्षोवंशकन्दो विहरत्यजितेऽर्हति ॥ ३ ॥ स महारक्षसे राज्यं सुधीर्दत्वा स्वसूनवे । अजितस्वामिपादान्ते परिव्रज्य ययौ शिवम् ॥ ४ ॥ महारक्षा अपि चिरं राज्यं भुक्त्वा स्वनन्दने । देवरक्षसि संस्थाप्य प्रव्रज्य च शिवं ययौ ।। ५ ।। रक्षोद्वीपाधिपेष्वेवमसङ्ख्येषु गतेषु तु । श्रेयांसतीर्थेऽभूत्कीर्तिधवलो राक्षसेश्वरः ।। ६ ।। तदा च वैताढ्यगिरौ पुरे मेघपुराभिधे । विद्याधरनरेन्द्रोऽभूदतीन्द्रो नाम विश्रुतः ॥ ७ ॥ श्रीमत्यां तस्य कान्तायां श्रीकण्ठो नाम नन्दनः । देवीति नाम्ना दुहिता चाऽभूद्देवीव रूपतः ॥ ८ ॥ विद्याधरेन्द्रस्तां पुष्पोत्तरो रत्नपुरेश्वरः । सूनोः पद्मोत्तरस्याऽर्थे ययाचे चारुलोचनाम् ॥। ९ ।। गुणिने श्रीमते ऽप्यस्मै तामतीन्द्रो ददौ न हि । ददौ कीर्त्तिधवलाय किन्तु दैवनियोगतः ॥ १० ॥ १ अञ्जनस्येव द्युतिः कान्तिर्यस्य तस्य । २ हरिवंशे चन्द्रसमानस्य । सप्तमं पर्व प्रथमः सर्गः रामलक्ष्मण रावण चरितम् । देव्याः कीर्तिधवलेन सह लग्नः । 119 11
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy