________________
॥३३॥
सुभाषितम् । स्तोकमप्यमृतं श्रेयो भारोऽपि न विषस्य तु । किं स्वादुनाऽपि भोज्येन रोचते न यदात्मने ? मानिनो ह्यवलेपं न विस्मरन्ति यतस्ततः । विद्याधराणां विद्यैव सर्वसिद्धिषु कामधुक् । स्वदुःखाख्यानपात्रं हि नाऽपरः सुहृदं विना । रहःस्थयोर्हि दम्पत्योर्न च्छेकाः पार्श्ववर्तिनः । स्वामिवत्स्वाम्यपत्येऽपि सेवकाः समवृत्तयः । सन्तः सतां न विपदं विलोकयितुमीश्वराः । अचिन्त्यं चरितं स्त्रीणां हि विपाको विधेरिव । अञ्जनलेशोऽपि दूषयत्यंशुकं शुचि । पुनर्नवीभवेत्प्रायो दुःखमिष्टावलोकनात् । अत्युग्रपुण्यपापानामिहैव ह्याप्यते फलम् । धिग्धिक् पतिमपण्डितम् । प्रहरेद् बाहुना को हि तीक्ष्णे प्रहरणे सति ? सर्वत्र बलवच्छलम् । प्रणिपातान्तः प्रकोपो हि महात्मनाम् । नर्मोक्तिर्न हि सत्यैव प्राया धवलगीतवत् । कुलधर्मः क्षत्रियाणां स्वसन्धापालनं खलु ।
*SHAHAHARAS
॥३३॥