________________
॥३२॥
|
| २२
सुभाषितम् । रले हि बहवोऽर्थिनः । किमसाध्यं महौजसाम् ? यदि प्राणिवधेनाऽपि स्वर्गो जायेत देहिनाम् । तच्छून्यो जीवलोकोऽयमल्पैरपि दिनैर्भवेत् । नाऽऽत्मीयाः कस्यचिन्नृपाः । सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् । न क्षोभः सत्यभाषिणाम् । अविमृश्य विधातारो भवन्ति विपदा पदम् । पुत्रार्थे क्रियते न किम् ? प्राणैरप्युपकुर्वन्ति महान्तः किं पुनर्गिरा ? प्राणात्ययेऽपि शंसन्ति नाऽसत्यं सत्यभाषिणः । न वाग्मात्रं कलङ्काय विशुद्धमनसां नृणाम् । अर्थिनोऽर्थेषु न तथा दोष्मन्तो विजये यथा । एकान्तविक्रमः क्वाऽपि विपदेऽपि प्रजापते । एकान्तविक्रमान्नाशं शरभाद्याः प्रयान्ति हि ॥ वीरा हि न सहन्तेऽन्यवीराहङ्काराडम्बरम् । तेजस्विनां हि निस्तेजो मृत्युतोऽप्यतिदुःसहम् । कर्माण्यवश्यं सर्वस्य फलन्त्येव चिरादपि । आपुरन्दरमाकीटं संसारस्थितिरीदृशी ।
533333330
AAAAAAAAAR
ॐा २४ | २५
५॥ २९
॥३२॥
2