________________
पृष्ठ क्र.
॥३४॥
सुभाषितम् । प्राप्तोदयं हि तरणिं तिरोधातुं क ईश्वरः ? लोभाभिभूतमनसां विवेकः स्यात्कियच्चिरम् । भाविन्युपचारो हि भूतवत् । दूरादभ्यागमस्तुल्यो दुईदा सुहृदामपि । छलनिष्ठा हि वैरिणः । किं सिंही हन्ति न द्विपान् ? न ह्यसत्प्राप्यते क्वाऽपि केनाऽप्याकाशपुष्पवत् । न हि भीराज्ञया राज्ञामन्यायकरणेऽपि हि । आप्ता हि स्फुटभाषिणः । समयज्ञा हि धीमन्तो न तिष्ठन्ति यथा तथा । राज्यं सर्वत्र दोष्मताम् । विशेषतः प्रीतये हि राज्ञा भूः स्वयमर्जिता । लोकस्थितिरियं जाते नन्दने दानमक्षयम् । हर्षे को नाम तृप्यति ?। व्रते ह्येकाहमात्रेऽपि न स्वर्गादन्यतो गतिः । कोपः शाम्यति महतां दीने क्षीणे ह्यरावपि । शोको हर्षश्च संसारे नरमायाति याति च । सन्तः सतां परित्राणे विलम्बन्ते न जातुचित् ।
॥३४॥