________________ एकोनविंशतिशती वर्षाणां चक्रिसम्पदि / व्रतकाले तु चत्वारि संवत्सरशतान्यगुः // 28 / / समासहस्रत्रयमायुरात्मनः स पूरयित्वा परिपाल्य च व्रतम् / घातिक्षयाविष्कृतकेवलो ययौ कैवल्यमक्षीणसुखास्पदं जयः / / 29 / / त्रिषष्टिशलाकापुरुषचरिते 277 // सप्तमं पर्व त्रयोदशः सर्गः जयचक्रि चरितम् / इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि जयचक्रवर्तिचरितवर्णनो नाम त्रयोदशः सर्गः / जयचक्रिणो निर्वाणम् / रामलक्ष्मणदशानना नमिस्तीर्थकृच्च हरिषेणचक्रभृत् / चक्रभृच्च जय इत्यामुत्र षड् वर्णिताः श्रुतिसुखाय सन्तु वः / / 1 / / / / 277 / / NDER सप्तमं पर्व समाप्तम् / /