________________
त्रिषष्टिशलाकापुरुषचरिते
२७६।।
सप्तमं पर्व त्रयोदशः
सर्गः
जयचक्रि चरितम् ।
पुरोधोगहिहस्त्यश्वसेनानीवर्धकिस्त्रियः । पञ्चेन्द्रियाणि सप्तैवं तस्य रत्नानि जज्ञिरे ॥ १३ ॥ दिग्यात्रार्थं सोऽनुचक्रं पूर्वं पूर्वाब्धिमभ्यगात् । मागधतीर्थकुमारं तत्र चक्रे वशंवदम् ।। १४ ।। ततो निवृत्य याम्याब्धौ वरदामपतिं सुरम् । सोऽसाधयन्न देवोऽपि भव्यलं चक्रवर्तिने ।। १५ ।। गत्वा च पश्चिमाम्भोधौ प्रभासाधीश्वरं सुरम् । क्षिप्तेनैकेन बाणेन वशीचक्रे स लीलया ।।१६ ॥ ततश्चाऽसाधयत् सिन्धुं सिन्धुराज इवाऽपरः । वैताढ्याद्रिकुमारं च सुरं सुरवरोपमः ।। १७ ॥ सोऽथ स्वयं वशीचक्रे कृतमालाभिधं सुरम् । सेनान्या तु महानद्याः सिन्धोः पश्चिमनिष्कुटम् ।। १८ ॥ यथाविधि तमिस्रां स प्रविश्य च निरीय च । आपातनाम्नः किरातान्निर्जिगाय महाभुजः ।। १९ ।। पश्चिमं निष्कुट सिन्धोः सेनान्या स विजित्य च । वशीचकार हिमवत्कुमारं देवविक्रमः ॥२०॥ काकिण्या ऋषभकूटे स लिखित्वाऽऽत्मनोऽभिधाम् । सेनान्या निष्कुटं गाङ्गं प्राचीनं चलितोऽजयत् ।। २१ ।। साधयित्वा स्वयं गङ्गां जित्वा विद्याधरेश्वरान् । खण्डप्रपाताद्वारस्थं नाट्यमालमसाधयत् ।। २२ ।। खण्डप्रपातागुहया वैताढ्यान्निर्जगाम सः । सेनान्याऽसाधयच्चाऽऽशु गाङ्गं प्राचीननिष्कुटम् ।। २३ ।। आवासितस्य गङ्गायां तेऽथ गङ्गामुखस्थिताः । नवाऽपि निधयस्तस्य नैसर्पाद्याः वशेऽभवन् ।।२४ ।। सोऽथ सम्पूर्णचक्रिश्रीराजगाम निजं पुरम् । चक्रे चक्रित्वाऽभिषेकश्चाऽस्य देवैर्नृपैरपि ।।२५ ॥ षट्खण्डां बुभुजे पृथ्वीमखण्डितपराक्रमः । क्रमेण च परिव्रज्यां भवोद्विग्नः स आददे ।।२६ ।। एवं जयस्य कौमारे वत्सराणां शतत्रयम् । तदेव मण्डलित्वेऽब्दशतं तु ककुभां जये ॥२७ ।। १निर्गत्य ।
जयचक्रिणो जन्म, तत्कृतषटखण्डविजयवर्णनञ्च ।
॥२७६ ॥