________________
त्रिषष्टिशलाकापुरुषचरिते २७५॥
सप्तमं पर्व त्रयोदशः सर्गः जयचक्रि चरितम् ।
त्रयोदशः सर्गः ।
जयचक्रिचरितम् । नर्भगवतस्तीर्थे समुत्पन्नस्य चक्रिणः । जयस्य जयिनः पुण्यं चरित्रमिदमुच्यते ॥ १ ॥ अस्यैव जम्बूद्वीपस्यैरवते श्रीपुरे पुरे । वसुन्धरापतिरभूत् ख्यातो नाम्ना वसुन्धरः ॥ २ ॥ स प्रेयस्याः पद्मवत्या मृत्युनोद्विग्नमानसः । राज्ये निवेशयामास तनयं विनयन्धरम् ।। ३ ।। मनोहरवने पार्थे वरधर्ममहामुनेः । तत्त्वं श्रुत्वा प्रतिबुद्धः परिव्रज्यामुपाददे ।। ४ ।।। चिरकालं परिव्रज्यां स यथावदपालयत् । विपद्य सप्तमे कल्पे देवभूयमियाय च ।। ५ ।। इतश्चाऽस्ति राजगृहं पुरं मगधमण्डनम् । श्रियामेकं कुलगृहं स्वःपुर्या इव सोदरम् । ६ ।। इक्ष्वाकुवंशप्रभवः प्रभवो न्यायवर्त्मनः । विजयी विजयो नाम तत्राऽभूत्पृथिवीपतिः ॥७॥ वप्राभिधाना तस्याऽभून्महिषी शीलशालिनी । भूगता काऽपि देवीव रूपलावण्यसम्पदा ।। ८ ॥ काले गच्छति तस्याश्च कुक्षाववततार सः । वसुन्धरमहीपालजीवः शुक्रात् परिच्युतः ॥ ९ ॥ जज्ञे तस्यां जयो नाम धनुर्वादशकोन्नतिः । सूनुश्चतुर्दशस्वप्नसूचितः काञ्चनच्छविः ॥१०॥ पित्रा राज्येऽभिषिक्तश्च तस्याऽऽयुधगृहेऽन्यदा । चक्ररत्नं समुत्पेदे प्रथम चक्रिलक्षणम् ॥११ ।। तथा च्छत्रं मणिर्दण्डो निस्त्रिशश्चर्म काकिणी । जज्ञिरे तस्य सप्तैवं रत्नान्येकेन्द्रियाणि तु ॥ १२ ॥ १ जयनशीलस्य । २ मनोहरनाम्नि वने । ३ चक्रेण सह सप्त ।
जयचक्रिणः पूर्वभवः ।
॥२७५ ॥