________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
प्रथमः
सर्गः श्रीऋषभस्वामिचरितम् ।
।। ५०॥
अथ पुष्कलपालस्य, व्यभिद्यन्त महारुषः । समन्तात् सीमसामन्ताः, सर्पभारोपमाजुषः ॥ ६९३ ॥ तेन तेषां द्विजिह्वानामिव साधनहेतवे । नरेन्द्रो वज्रजोऽथ, समाहूतोऽचलद् बली ।। ६९४ ॥ श्रीमत्यपि समं वज्रजङ्घन जगतीभुजा । अचालीदचला भक्तिः, पौलोमीव बिडौजसा ।। ६९५ ।। स गच्छन्त्रर्द्धमार्गेऽथ, महाशरवणं पुरः । ददर्श दर्शयामिन्यामपि ज्योत्स्नाभ्रमप्रदम् ॥ ६९६ ॥ दृग्विषोऽहिरिहाऽस्तीति, विज्ञप्तः सोऽध्वगैरगात् । पथाऽन्येन नयज्ञा हि, प्रस्तुतार्थेषु तत्पराः ।।६९७ ॥ आययौ पुण्डरीकिण्या, पुण्डरीकोपमोऽथ सः । सामन्तमण्डलं सर्वं, वशेऽभूत् पुष्कलस्य च ॥ ६९८ ।। राजा पुष्कलपालोऽपि, पुष्कलानि विधेयवित् । विविधानि व्यधादस्य, स्वागतानि गुरोरिव ।।६९९ ।। श्रीमन्तं श्रीमतीबन्धुमनुज्ञाप्याऽन्यदा तु सः । श्रीमत्या सहितोऽचालीच्छ्रियः पतिरिव श्रिया ।। ७०० ।। सोऽथ प्राप्तः शरवणं, निको कषणो द्विषाम् । इत्यूचे कुशलैर्यात, मध्येनाऽप्यस्य सम्प्रति ।। ७०१ ।। उत्पेदे केवलज्ञानं, द्वयोरत्राऽनगारयोः । तत्र देवागमोड्योताद्, दृग्विषो निर्विषोऽभवत् ॥७०२ ॥ नाम्ना सागरसेनश्च, मुनिसेनश्च तौ मुनी । राजन्नत्रैव विद्येते, सूर्याचन्द्रमसाविव ।। ७०३ ॥ सोदयौ तौ मुनी ज्ञात्वा, विशेषमुदितो नृपः । उवास तत्रैव वने, वनमालीव वारिधौ ॥ ७०४ ।। कुर्वाणौ देशनां तत्र, तौ वृतौ देवपर्षदा । भक्तिभारादिवाऽऽनम्रः, सभार्यः सोऽभ्यवन्दत ।। ७०५ ॥ देशनान्ते च पानान्नवस्त्रोपकरणादिभिः । तौ प्रत्यलाभयद् राजा, चिन्तयामास चेति सः ॥७०६ ।। धन्यावेतौ निष्कषायौ, निर्ममौ निष्परिग्रहौ । सोदर्यभावे सामान्येऽप्यहो! नाऽस्म्यहमीदृशः ॥ ७०७ ।। १ अन्तर्भेदं प्राप्ताः । २ इन्द्राणी । ३ समीपे । ४ संहारकः । ५ सहोदरौ । ६ विष्णुरिव । * चेतसि ।
पूर्वभवचरिते षष्ठो वज्रजच भवः ।
|| ५०॥