________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥४९ ।।
आत्मसन्दर्शनायाऽस्या, आगतोऽहमिहाऽस्मि च । मयि रक्ता मृता जज्ञे, नूनमेषा स्वयम्प्रभा ॥६७८ ॥ इह नन्दीश्वरे जैनबिम्बार्चनपरोऽस्म्यहम् । गच्छन्नितोऽन्यतीर्थेषु, च्यवमानोऽहमस्म्यहम् ।। ६७९ ॥ इह चैकाकिनी दीना, वराकीयं स्वयम्प्रभा । इह च च्यवमानेयं, मन्ये सैव मम प्रिया ।। ६८० ।। साऽस्तीह मन्ये लिखितं, जातिस्मृत्या तया त्वदः । अन्यानुभूतं न ह्यन्यो, जनो जानाति जातुचित् ।।६८१ ॥ आमेति पण्डिताऽप्युक्त्वा, श्रीमत्याः पार्श्वमेत्य च । तत्सर्वमाख्यत् हृदयविशल्यकरणौषधम् ।। ६८२ ।। श्रीमती दयितोदन्तगिरा रोमाञ्चिताऽभवत् । अम्भोदध्वनिना रत्नाङ्कुरितेव विदूरभूः ।। ६८३ ॥ पितुर्व्यज्ञपयत् तच्च, श्रीमती पंडितामुखात् । अस्वातन्त्र्यं कुलस्त्रीणां, धर्मो नैसर्गिको यतः ।। ६८४ ।। । तद्राि मुदितः सद्यः, स्तनितेनेव बहिणः । वज्रसेननृपो वज्रजङ्घमाजूहवत् ततः ॥ ६८५ ।। कुमारमूचे भूपालोऽस्मत्पुत्री श्रीमतीत्यसौ । भवत्विदानी भवतो, गृहिणी पूर्वजन्मवत् ।। ६८६ ।। तथेति प्रतिपन्ने च, कुमारेणोदवाहयत् । श्रीमती भूपतिः प्रीतो, हरिणेवोदधिः श्रियम् ।। ६८७ ।। ज्योत्स्नीचन्द्राविव युतौ, तौ सितक्षौमवाससौ । लोहार्गलपुरं राज्ञाऽनुज्ञातौ जग्मतुस्ततः ॥ ६८८ ।। योग्यं ज्ञात्वा वज्रजचं, स्वर्णजोऽथ भूपतिः । राज्ये निवेशयामास, स्वयं दीक्षामुपाददे ।। ६८९ ॥ सूनोः पुष्कलपालस्य, दत्त्वा राज्यश्रियं निजाम् । प्रावाजीद् वज्रसेनोऽपि, जज्ञे तीर्थकरश्च सः ॥ ६९० ॥ विलसन वज्रजोऽपि, श्रीमत्या सह कान्तया । उवाह लीलया राज्यमम्भोजमिव कुञ्जरः ।। ६९१ ।। अप्राप्तयोर्विप्रयोगं, गङ्गासागरयोरिव । तयोर्भुञ्जानयो गान्, सुतः समुदपद्यत ।। ६९२ ।।
पूर्वभवचरिते षष्ठो वजजङ्घ भवः।
॥४९॥