________________
त्रिषष्टिशलाका
पुरुषचरिते
।। ४८ ।।
भूयोऽपि पृष्टः को नाम, नृपोऽयं मन्त्रिभिर्वृतः ? । तपस्विनी च का न्वेषेत्याख्यदाख्यां न वेद्म्यहम् ।। ६६२ ।। मायावीति च संज्ञातः, सोपहासं तयोदितः । पुत्रेदं संवदत्येव, प्राग्जन्मचरितं तव ।। ६६३ ॥ ललिताङ्गोऽसि देवस्त्वं, त्वत्पत्नी तु स्वयम्प्रभा । नन्दिग्रामे कर्मदोषात्, पचभूताऽस्ति सम्प्रति ।। ६६४ ॥ सञ्जातजातिस्मरणादालिख्य चरितं निजम् । पटो मे धातकीखण्डगताया अर्पितस्तया ।। ६६५ ।। तस्याः पङ्ग्वाः करुणया, त्वं मयाऽसि गवेषितः । तदेहि धातकीखण्डे, त्वां नयामि तदन्तिके ।। ६६६ ।। वराकी त्वद्वियोगे सा, दुःखं जीवति पुत्रक ! । समाश्वासय तामद्य, प्राग्जन्मप्राणवल्लभाम् ।। ६६७ ।। एवमुक्त्वा पण्डितायां, तूष्णीकायां स मायिकः । इत्थं वयस्यैः स्वैरेव, सोपहासमभाष्यत ।। ६६८ ।। कलत्ररत्नाधिगमादहो ! पुण्योदयस्तव । अभिगम्या च पोष्या च सा पडूः सर्वथा तव ।। ६६९ ।। ततो वैलक्ष्यदीनास्यः, स दुर्दान्तः कुमारकः । विक्रीयमाणेभ्य इवाऽवशिष्टः क्वचिदप्यगात् ।। ६७० ॥ लोहार्गलपुराद् वज्रजङ्घेोऽपि हि तदाऽऽययौ । चरितं चित्रलिखितं, तद् ददर्श मुमूर्च्छ च ।। ६७१ ।। व्यजनैर्वीजितो नीरैरुक्षितोऽथ स उत्थितः । जातजातिस्मृतिरभूत्, सद्यः स्वर्गादिवागतः ।। ६७२ ।। पटलेख्यमिदं दृष्ट्वा किं कुमाराऽसि मूर्च्छितः ? । इति पण्डितया पृथे, वज्रजोऽब्रवीदिदम् ॥ ६७३ ॥ चरित्रं सकलत्रस्य, मम प्राग्भवसम्भवम् । इदं हि लिखितं भद्रे !, तद् दृष्ट्वा मूर्च्छितोऽस्म्यहम् ॥ ६७४ ॥ श्रीमानैशानकल्पोऽयं, विमानं श्रीप्रभं त्विदम् । एषोऽहं ललिताङ्गाख्यः, प्रिया मेऽसौ स्वयम्प्रभा ।। ६७५ ।। इतश्च धातकीखण्डे, नन्दीग्रामस्य मध्यतः । गृहे महादरिद्रस्य, सुता निर्नामिकेत्यसौ ।। ६७६ । शैलमम्बरतिलकमध्यारूढाऽस्ति सा त्विह । गृहीतानशनाऽमुष्य, युगन्धरमुनेः पुरः ।। ६७७ ।।
प्रथमं पर्व
प्रथमः सर्गः श्रीऋषभ
स्वामि
चरितम् ।
पूर्वभव
चरिते षष्ठो
वज्रजङ्घ भवः ।
118211