________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥४७॥
ज्ञात्वा दुःखं यतिष्येऽहं, तत्प्रतीकारकर्मणे । न ह्यज्ञातस्य रोगस्य, चिकित्सा जातु युज्यते ।। ६४६ ।। पण्डितायाः स्ववृत्तान्तं, साऽपि प्राग्जन्मसम्भवम् । यथावदब्रवीत् प्रायश्चित्तार्थी सद्गुरोरिव ।। ६४७ ।। पटे वृत्तान्तमालेख्य, श्रीमत्यास्तं च पण्डिता । उपायपण्डिता मञ्ज, बहिर्दर्शयितुं ययौ ।। ६४८ ।। चक्रिणो वज्रसेनस्य, वर्षग्रन्थिरभूत् तदा । प्रस्तावादाययुस्तत्र, भूयांसो वसुधाधवाः ।। ६४९ ।। पण्डिता राजमार्गेऽथ, तमालेख्यपटं स्फुटम् । विस्तार्य तस्थौ श्रीमत्या, मनोरथमिवाऽलघुम् ।। ६५० ।। तत्राऽऽगमविदः केऽपि, स्वर्गनन्दीश्वरादिकम् । आगमार्थाविसंवादि, लिखितं परितुष्टुवुः ।। ६५१ ।।। इतरे तु महाश्राद्धा, धूनयन्तः शिरोधराम् । प्रत्येक वर्णयामासुर्बिम्बानि श्रीमदर्हताम् ।। ६५२ ।। कूणिताक्षमभीक्ष्णं केऽपीक्षमाणाः प्रतिक्षणम् । रेखाशुद्धिं प्रशशंसुः, कलाकौशलशालिनः ।। ६५३ ।। इतरे तु सिति-श्वेत-पीत-नीला-ऽरुणादिकान् । सन्ध्याभ्राभीकृतपटान्, वर्णकानित्यवर्णयन् ।। ६५४ ।। अत्रान्तरे च तनयो, दुर्दर्शनमहीपतेः । यथार्थनामा दुर्दान्त, इति तत्र समाययौ ।। ६५५ ।। स क्षणं तं पटं प्रेक्ष्य, प्रेक्षावान् मूर्छया क्षितौ । अलीकयाऽपतदथ, लब्धसंज्ञ इवोत्थितः ।। ६५६ ।। मूर्छायाः कारणं पृष्ट, उत्थितश्च जनेन सः । कथयामास वृत्तान्तं, कृत्वा कपटनाटकम् ।। ६५७ ।। मम प्राग्जन्मचरितं, पटे केनाऽप्यलेख्यत । जातिस्मरणमुत्पेदे, हन्त ! तद्दर्शनादिह ।। ६५८ ॥ ललिताङ्गोऽस्म्यहं देवो, मम देवी स्वयम्प्रभा । इत्यादि संवदत्येव, यदत्र लिखितं पटे ।। ६५९ ।। पप्रच्छ पण्डिता चाऽथ, यद्येवं भद्र ! तद्वद । सन्निवेशः पटे कोऽयमङ्गुल्या दर्शय स्वयम् ।। ६६० ।। स ऊचे मेरुरेषोऽद्रिः, पूरियं पुण्डरीकिणी । पुनः पृथे मुने माऽब्रवीन्नामाऽस्य विस्मृतम् ।। ६६१ ॥
पूर्वभवचरिते षष्ठो वजजङ्य भवः।
॥४७॥
१ चित्ररचना।