________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व प्रथमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥४६॥
स्निग्धया पल्लवयन्तीमिव कान्त्या नभस्तलम् । तां यौवनमलञ्चक्रे, रलं स्वर्णार्मिकामिव ॥६३१ ॥ अन्येयुः सर्वतोभद्रं, नाम प्रासादमुच्चकैः । शैलं सन्ध्याभ्रलेखेव, क्रीडयाऽध्यारुरोह सा ॥६३२ ॥ ततो मनोरमोद्याने, सुस्थितस्य महामुनेः । उत्पन्ने केवलज्ञाने, ददर्शाऽऽगच्छतः सुरान् ॥ ६३३ ॥ दृष्टपूर्वं मया क्वेदमित्यूहापोहकारिणी । जन्मान्तराणि पूर्वाणि, निशास्वप्नमिवाऽस्मरत् ।। ६३४ ।। हृदये प्राग्भवज्ञानभारं वोढुमिवाऽक्षमा । क्षमातले क्षणादेव, मूछिता निपपात सा ।। ६३५ ।। चन्दनाद्युपचारेण, सखीभिः कल्पितेन सा । लब्धसंज्ञा समुत्तस्थौ, चित्ते चैवमचिन्तयत् ।। ६३६ ॥ पूर्वजन्मपतिर्मे स, ललिताङ्गो दिवश्च्युतः । क्व सम्प्रत्यवतीर्णोऽस्तीत्यज्ञानं हा! दुनोति माम् ।।६३७ ॥ तस्मिन् हृदयसक्रान्ते, नाऽन्यो मे हृदयेश्वरः । कर्पूरभाण्डे को नाम, लवणं विनिवेशयेत् ? ॥६३८ ॥ स च प्राणाधिनाथो मे, न चेद् वचनगोचरः । आलप्याऽलं तदन्येनेत्याददे मौनमेव सा ।। ६३९ ।। आधिदैविकदोषाभिशङ्कया तत्सखीजनैः । अकारि मन्त्रतन्त्रादिरुपचारो यथोचितम् ।। ६४० ।। सा मुमोच न मूकत्वमुपचारशतैरपि । व्याधेरन्यस्य न ह्यन्यदौषधं जातु शान्तिकृत् ॥ ६४१ ॥ प्रयोजने परिजनं, स्वं नियोजयति स्म सा । अक्षराणि लिखित्वा भ्रूहस्तादेरथ संज्ञया ॥६४२ ।। अन्येधुः श्रीमती क्रीडोद्याने यातवती सती । एकान्ते समयं प्राप्य, धात्र्योचे पण्डिताख्यया ।। ६४३ ॥ मम प्राणा इवाऽसि त्वं, मातेवाऽस्मि तवाऽप्यहम् । अन्योऽन्यमावयोस्तेन, नाऽस्त्यविश्वासकारणम् ॥६४४ ॥ मौनमालम्बसे पुत्रि!, हेतुना येन शंस तम् । तदुःखसंविभागं मे, दत्त्वा दुःखं लघूकुरु ॥ ६४५ ॥ * तीमङ्गका । १ तर्कवितर्ककारिणी । + दैवतदो।
पूर्वमवचरिते षष्ठो वजजय भवः ।
॥४६॥